भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 65, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 65

४४ कथासरित्सागर सत्यं साध्व्यः प्रविरालाश्चपलास्तु सर्वा स्त्रियः । अविश्वास्त्यास्तथा श्वेतामपि श्व कथां शृणु ॥२॥ इहास्त्युज्जयिनी नाम नगरी विश्वविश्रुता । तस्यां निश्चयदत्ताख्यो वणिक्पुत्रोऽभवत्पुरा ॥३॥ स द्यूतकारे द्यूतेन धनं जित्वा दिने दिने । स्नात्वा सिप्राजलेऽभ्यर्च्य महाकालमुदारधीः ॥४॥ दत्त्वा दानं द्विजातिभ्यो दीनानाथेभ्य एव च । व्यधाद्विलेपनाहारताम्बूलाद्यविशेषतः ॥५॥ सदा स्नानार्चनाद्यन्ते महाकालारुयान्तिके । गत्वा व्यलिम्पदारामं श्मशाने चन्दनादिना ॥६॥ तत्रस्थे च शिलास्तम्भे स विन्यस्य विलेपनम् । विमलिंप कथम्पृष्ठं युवा प्रत्यहमेककः ॥७॥ तेन स्तम्भः स सुश्लक्ष्णः कालेनाभवदेकतः । अथागाच्चित्रकृत्तेन पथा रूपकृता सह ॥८॥ स स्तम्भं वीक्ष्य सुश्लक्ष्णं तत्र गौरीं समालिखत् । रूपकारोऽपि शास्त्रेण प्रौढयेवोल्लिखेत् ताम् ॥९॥ ततस्तयोगतवतोर्महाकालार्चनागता । विद्याधरसुतैकात्र स्तम्भे देवीं ददर्श ताम् ॥१०॥ सुलक्ष्णत्वात्साप्रविश्य तस्यां गत्वा कृतार्थताम् । अदृश्या विद्ययार्यैतं शिलास्तम्भं विवेश सा ॥११॥ तावन्निश्चयदत्त स तत्रागत्य वणिक्सुतः । साश्चर्यं स्तम्भमध्ये तां ददर्शोल्लिखितामुमाम् ॥१२॥ विलिप्याङ्गानि तत्स्तम्भागेऽन्यत्रानुरूपनम् । न्यस्य पृष्ठं समालब्धुं प्रारभे निरुपद्रवः स ॥१३॥ तद्विलोक्ष्य विलोलाक्षी सा विद्याधरकन्यका । स्तम्भान्तरस्था तद्रूपहृतचित्ता व्यचिन्तयत् ॥१४॥ ईदृशस्यापि शोभ्यस्य नास्ति पृष्ठानुलेपकः । तदहं तावदद्यास्य पृष्ठमेषा समालभे ॥१५॥ इत्यालोच्य प्रसार्यैव करं स्तम्भान्तरात्सती । व्यलिंपत्तस्य सा पृष्ठं स्नेहाद्विद्याधरी तदा ॥१६॥