कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 653, कुल 1079 में से
संदर्भ में पढ़ें६६ कथासरित्सागर स कदाचिच्छरत्काले सोष्मप्युन्मदवारणः। राजहंसपरीवारे सोत्सवानन्दितप्रजे ॥३३॥ आत्मतुल्यगुणं रन्तुं चित्रप्रासादमविशत्। आकृष्टपद्मदामोदवहन्मारुतशीतलम् ॥३४॥ तत्र निर्वर्णयन् यावत्तच्चित्रं स प्रशसति। तावत् प्रविश्य भूपं तं प्रतीहारो व्यजिज्ञपत् ॥३५॥ इहागतो निवर्त्तेभ्योऽपूर्वश्चित्रकरः प्रभो। अनन्यसममात्मानं चित्रकर्मण्युदाहरन् ॥३६॥ रोलदेवाभिधानेन सिंहद्वारेऽत्र तेन च। एतदेवाभिलिख्याद्य चीरिकोल्लम्बिता१ किल ॥३७॥ तच्छ्रुत्त्वादराद् भूपेनादिष्टानयनः स तम्। आनिनाय प्रतीहारो गत्वा चित्रकरं क्षणात् ॥३८॥ स प्रविश्य ददर्शात्र चित्रावलोकनलीलया। स्थितं कनकवर्णं तं नृपं चित्रकरो रहः ॥३९॥ वरनारीकुचासङ्गसमर्पिततनूभरम् । सहेलोदञ्चितकरोपात्तताम्बूलवीटिकम् ॥४०॥ प्रणम्य चोपविष्टस्तं राजानं विहितादरम्। शनैर्विज्ञापयामास रोलदेवः स चित्रकृत् ॥४१॥ चीरिकोल्लम्बिता यद्यत् त्वत्पादाब्जदिदृक्षया। मया न विज्ञानमदात् तत्क्षन्तव्यमिदं मम ॥४२॥ आदिश्यतां च चित्रं किमालिखामीह रूपकम्। भवत्प्रत्यक्षतादिशायत्नो मे सफलो प्रभो ॥४३॥ इति चित्रकरोक्ते स राजा निजगाद तम्। उपाध्याय यथाकामं किञ्चिन्नालिख्यतां त्वया ॥४४॥ ह्लाद्यामो वयं यद्यद्भ्रान्तिस्तत्त्वोपगते तु का। इत्युक्तं तेन राज्ञाऽत्र तत्पार्श्वस्था बभाषिरे ॥४५॥ राज्ञोऽविकलतामन्यैरित्थं प्रोक्ते किं प्रयोजनम्। तच्छ्रुत्वा चित्रकृत् प्रा तं राजानमालिखत् ॥४६॥ १ पुरातने विज्ञापनार्थं पटे विलिख्य लम्ब्यते स्म। साम्प्रतं साईनबोर्ड 'बोलर' इत्यादि कथ्यते।