भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 659, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 659

६१२ कथासरित्सागर दृष्ट्वा च देवस्याकारं निवृत्तः संशयो मम। देव एव तया चित्रे मठस्तनामलिखितः ॥७६॥ सा पादसङ्गे सदृशी शक्या लिखितुमित्यहम्। चित्रं देवस्य पार्श्वे तां न लिखामि समामपि ॥७७॥ इत्युक्तवन्तं स रोल्देवं राजा जगाद सः। तर्हि त्वया सा तच्चित्रपटस्था दर्शयतामिति ॥७८॥ ततो वंशगुलिकातस्तं १ कृष्ट्वा पटमदर्शयत्। स चित्रकृतां चित्रस्यां राज्ञे मदनसुन्दरीम् ॥७९॥ राजा कनकवर्षोऽपि तां स चित्रगतामपि। विचित्ररूपामालोक्य सद्यः स्मरवशो ययौ ॥८०॥ पूरयित्वा च बहुना हेम्ना चित्रकरं स तम्। आप्तप्रियाचित्रपटो विवशाभ्यन्तरं नृपः ॥८१॥ तत्र तद्रूपलावण्यदर्शनातृप्तलोचनः। त्यक्तसर्वक्रियस्तस्थौ तदेकमयमानसः ॥८२॥ वबाधे धैर्यहारी च निर्मोत्सृष्टान्तरे शरैः। रूपस्पर्द्धासमुद्भूतमत्सर्य इव मन्मथः ॥८३॥ या वक्ता रूपलुब्धानां स्मरार्त्तिस्तन योषिताम्। फलितेव च साभास्य दातस्यान महीक्षितः ॥८४॥ ततो दिनैश्च विरहम्लानपाण्डुः शनैस्स सः। आप्तेभ्यः सचिवेभ्यस्तत्पृच्छद्भ्यः स्वं मनोगतम् ॥८५॥ मन्त्रयित्वा च तैः सार्द्धं कन्यां मदनसुन्दरीम्। याचितुं प्राहिणोद्दूतं स राज्ञे देवशक्तये ॥८६॥ सङ्गमस्वामिनामानं कार्यज्ञं कार्यवेदिनम्। विप्रमाप्तं कुलीनं च मधुरोदात्तभाषिणम् ॥८७॥ स गत्वा सुमहार्हेण विप्रः परिकरेण सान्। विद्रमन् सङ्गमस्वामी प्राविशत्कुण्डिनं पुरम् ॥८८॥ यथावत् तत्र राजानं देवशक्तिं ददर्श तम्। स स्वामिनोऽर्थे तस्माच्च प्रार्थयामास तत्सुताम् ॥८९॥ १ पुराकाले पुस्तकपत्रादिरक्षणार्थं वंशस्य लोहस्य वा गोलाकारं किमपि प्रवर्त्तन्ते स्म तदेव वंशगुलिका भवेत्। पटचित्राणां कृते वेष्टनदण्डोऽपि भवति। तदेव वा भवेत्।