भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 667, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 667

५२ कथासरित्सागर स्तनस्तमयुनेवाम्बुवारिणा गलितेन सा। सिञ्चन्ती कण्ठलग्नास्य प्रसाद्य महीपतिं ॥१३१॥ अथैष हृष्टो नीत्वा तद्दिनं कुपिततुष्टया' । राजा तया सहासेव्य रत निशामगाभिशि॥१३२॥ सुप्तो ददर्श चाकस्मात् स्वप्ने विकृतया स्त्रिया। हृतामेकावलीं कण्ठाच्चूडारत्नं च मूर्धतः ॥१३३॥ ततोऽप्यपश्यद्वेताल नानाप्राप्यङ्गविग्रहम्' । बाहुयुद्धे प्रवृत्तं च त स भूमावपातयत् ॥१३४॥ पृष्ठोपविष्टश्छोड्डीय पक्षिणेव विहायसा। नीत्वा तेन नृपोऽम्भोधी वेतालेन स विक्षिपे ॥१३५॥ तत्र कथञ्चिदुत्तीर्ण परमेकावलीं गले। चूडामणिं च तं मूर्ध्नि पूर्ववत्स्थितमैक्षत ॥१३६॥ एतद्दृष्ट्वा प्रबुद्धः स प्रातः परिचयागतम्। अस्य क्षपणकं राजा फलं स्वप्नस्य पृष्टवान् ॥१३७॥ । न वाच्यमप्रियं किं तु कथं पृष्टो न वच्मि य ॥१३८॥ या त्वयैकावली दृष्टा हृता चूडामणिस्तथा। सैष देव्या वियोगस्ते पुत्रेण च भविष्यति ॥१३९॥ प्राप्ते चैकावलीरत्नं यदुत्तीर्णाब्धिना त्वया। दुःखान्ते सोऽपि भावी ते देवीपुत्रसमागमः ॥१४०॥ इति क्षपणकेनोक्ते विमृश्य स नृपोऽब्रवीत्। पुत्रो मेऽद्यापि नास्त्येव स तावज्जायतामिति ॥१४१॥ अथोपयाताद्योपौरस रामायणपाठकात् । पुत्रार्थं विहितक्लेदं राजा ददर्श नृपम् ॥१४२॥ ततोऽमृतसुतप्राप्तिश्चिन्त क्षपणक गतः। राजा कनकवर्षस्तद्दिनाय विमना दिगम् ॥१४३॥ १ आदौ कुपिता पश्चात् तुष्टा तया । २ 'मोहम्-त्रो-बद्धो'स्थाने पुस्तरान्तरमवमितिः नानाप्राप्यङ्ग विग्रहा मूर्तकः समुत्पन्नतः तदि ३ मूलपुस्तके भ्रटितमिदं यथार्थम्।