भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 669, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 669

६२२ कथासरित्सागर

रात्रावकस्माज्जैकाकी विनिद्रः शयनस्थितः । द्वारमुद्घाटितेऽप्यन्तः प्रविष्टां स्त्रियमैक्षत ॥१४४॥ विनीता सौम्यरूपा च सा तं साश्चर्यमुत्थितम् । कृतप्रणाम वक्ताशीः क्षितीश्वरमभाषत ॥१४५॥ पुत्र मां विद्धि तनयां नागराजस्य वासुकेः । त्वत्पितुर्भगिनीं ज्येष्ठां नाम्ना रत्नप्रभामिमाम् ॥१४६॥ रक्षार्थं तेऽन्तिके शश्वददृष्टा च वसाम्यहम् । अद्य दृष्ट्वा सचिन्तं त्वामात्मा ते बोधितो मया ॥१४७॥ न द्रष्टुमुत्सहे ग्लानिं तव तद्ब्रूहि कारणम् । इत्युक्तः स तया राजा पितृष्वस्रा जगाद ताम् ॥१४८॥ धन्योऽस्म्यम्ब यस्यैव त्वं प्रसादं करोषि मे । अनिवृत्तिं च मे विद्धि पुत्रासम्भवहेतुकाम् ॥१४९॥ अपि राजर्षयो यत्र पुरा दशरथादयः । स्वर्गार्थमेवेच्छंस्तत्राम्ब कथं नेच्छन्तु मादृशाः ॥१५०॥ एतत्कनकवर्षस्य नृपतेस्तस्य सा वचः । श्रुत्वा रत्नप्रभा नागी भ्रातुः पुत्रमुवाच तम् ॥१५१॥ तर्हि पुत्र वदाम्येकं यमुपायं कुरुष्व तम् । गत्वा स्वामिकुमारं त्वमतदर्थं प्रसादय ॥१५२॥ कुमारधारां विघ्नाय पतन्तीं मूर्ध्नि दुःसहाम् । शरीरान्तःप्रविष्टायाः प्रभावान्मम सहिष्यसे ॥१५३॥ विघ्नजातं विजित्या यदपि प्राप्स्यसि वाञ्छितम् । इत्युक्तान्तर्दधे नागी राजा हृष्टोऽक्षिपत्क्षपाम् ॥१५४॥ प्रातर्मन्त्रिषु विन्यस्य राज्यं पुत्राभिकाङ्क्षया । ययौ स्वामिकुमारस्य पादमूलं स भूपतिः ॥१५५॥ तत्र तीव्रं तपश्चक्रे तमाराधयितुं प्रभुम् । तयार्पितबलो नाग्या शरीरान्तःप्रविष्टया ॥१५६॥ ततोऽशनिनिभा राज्ञः पतितुं तस्य मूर्धनि । कुमारवारिधारा सा प्रवृत्ताभूदनारतम् ॥१५७॥ स च सहे शरीरान्तर्गतनागीबलेन ताम् । ततस्तस्याभिविप्सार्थं हेरम्बं प्रेरयद्गुहः ॥१५८॥