कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 67, कुल 1079 में से
संदर्भ में पढ़ें४६ कथासरित्सागर तत्क्षणं लब्धसंस्पर्शं व्यक्तकङ्कणनिस्वनं । जग्राह हस्तं हस्तेन स तस्यास्त्वं वणिक्सुतः ॥१७॥ महाभागापराद्धं ते किं मया मुञ्च मे करम् । इत्यदृश्यैव तं विद्याधरी स्तम्भादुवाच सा ॥१८॥ प्रत्यक्षा ब्रूहि मे का त्वं ततो मोक्ष्यामि ते करम् । इति निश्चयदत्तोऽपि प्रत्युवाच स तां ततः ॥१९॥ प्रत्यक्षभूत्वा सर्वं ते वच्मीति शपथोत्तरम् । विद्याधर्या तथोक्ताञ्च करं तस्या मुमोच सः ॥२०॥ अथ स्तम्भाद्विनिर्गत्य साक्षात्सर्वाङ्गसुन्दरी । तन्मुखासक्तनयना तं जगादोपविश्य सा ॥२१॥ अस्ति प्रालेयशैलान्ते नगरी पुष्करावती । नाम्ना विन्ध्यपरस्तस्यामास्ते विद्याधराधिपः ॥२२॥ अनुरागपरा नाम तस्याहं कन्यका सुता । महाकालार्चनायाता विश्रान्तास्मीह सम्प्रति ॥२३॥ तावच्च त्वमिहागत्य कुर्वन्पृष्ठविलेपनम् । दृष्टः स्तम्भेऽत्र मारीय¹ मोहागान्त्रोपमो मया ॥२४॥ तव प्रागनुरागेण रञ्जितं स्वान्तरात्मनः । पश्चात्पृष्ठविलेपिन्या अङ्गरागेण ते करः ॥२५॥ अतः परं त्वां विदित्वा चलितुमीहे सम्प्रति । गच्छामीति तयोक्तोऽथ वणिक्पुत्रो जगाद सः ॥२६॥ स्वीकृतं तन्मया चण्डि न स्वान्तं भवतीकृतम् । अमुक्तस्वीकृतान्तान्तः कथमद्य तु गच्छसि ॥२७॥ इति तेनोदिता सा च मधुरागणवशीकृता । सङ्गमिष्ये त्वया काममप्यस्यामस्मत्पुरी यदि ॥२८॥ दुर्गमा सा न ते नाथ सेत्स्यते ते समीहितम् । नहि दुष्करमस्तीह किञ्चिद्व्यवसायिनाम् ॥२९॥ इत्युदीर्य गमुत्पत्य चानुरागपरा ययौ । अगाद्रिश्चयदत्तोऽपि ग तद्गतमना गृहम् ॥३१॥ ───────────────────────────────────────── १ माराय कामप्राय इदं मारीयं काम सम्बन्धि।