कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 685, कुल 1079 में से
संदर्भ में पढ़ें३३८ कथासरित्सागर इत्युक्त्वा स्वापयित्वा तां तथेत्युक्तवती गृहे। भार्यां स चन्द्रस्वामी तौ गृहीत्वा दारको निजौ ॥१८॥ महीपालं च तं सां च कन्यां चन्द्रवतीमुभौ। ततः प्रतस्थे नगरात् पत्नीं पितृगृहं प्रति ॥१९॥ गच्छन् क्रमात्त्रिचतुर्दिनं प्राप महानटवीम्। अर्कांशुतप्तसिकतां विशुष्कविरलद्रुमाम् ॥२०॥ सत्यां तृषाभिभूतौ तौ स्वापयित्वा स दारको। चन्द्रस्वामी ययौ दूरमन्वेष्टुं वारि सत्कृते ॥२१॥ तत्र तस्याययावग्र मानुगः शबराधिपः। अकस्मात् सिंहदंष्ट्राख्यः कार्याय प्रस्थितः क्वचित् ॥२२॥ स तं दृष्ट्वात्र पृष्ट्वा च बुद्ध्वा भिल्लो जलाथिनम्। संज्ञां कृत्वाब्रवीद् भृत्याञ्छ्रीत्वाम्भः प्राप्यतामयम् ॥२३॥ तच्छ्रुत्वा तस्य भृत्यास्तं द्वित्रा लब्धाशया ऋजुम्। ते चन्द्रस्वामिनं पत्नीं नीत्वा बद्धमकुर्वत ॥२४॥ नरोपहारायात्मानं तेभ्यो बुद्ध्वा स सत्वरम्। चन्द्रस्वामी शुशोच स्वौ- वारकावटवीगतौ ॥२५॥ हा महीपाल हा वत्से चन्द्रवत्यपदे कथम्। मयारण्ये युवां त्यक्त्वा सिंहव्याघ्रामिषीकृतौ ॥२६॥ आत्मा च भातिसत्त्वीरैनै घास्ति शरणं मम। इत्याक्रन्दत्स विप्रोज्ञं व्योम्न्यपश्यत्संववात् ॥२७॥ हन्त मोहं विहायेतं स्वं प्रभुं शरणं यये। इत्यालोच्य द्विजः सूर्य स स्तोतुमुपचक्रमे ॥२८॥ तुभ्यं परापगकाशाधामिने ज्योतिषे विभो। आभ्यन्तरं च बाह्यं च तमः प्रणुदते नमः ॥२९॥ त्वं विष्णुस्त्रिजगद्व्यापी त्वं शिवः श्रेयसां निधिः। सृष्टं विष्टप्यम्बिदध परमस्र प्रजापतिः ॥३०॥ अग्रवाणी प्रवाद्येतामेताविरयग्निचन्द्रयोः। न्यक्तारमत्तजा दययवास्तधि यामि यामिनीम् ॥३१॥ यिम्बस्यपि रक्षांसि प्रभवन्ति न दस्यवः। प्रमोद्न्ते च गुणिनो भास्वद्यम्यदिन रवयि ॥३२॥