कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 689, कुल 1079 में से
संदर्भ में पढ़ें६४२ कथासरित्सागर ब्रह्मन् स्वप्नेऽहमाविष्टस्तथा देवेन भानुना। यथा सम्पूज्य भोक्तव्यो न हन्तव्यो मया भवान् ॥४८॥ तदुत्तिष्ठ व्रज स्वच्छमित्युक्त्वा स मुमोष तम्। प्रत्तमुक्तामृगमद क्लृप्तारण्यानुयायिकम् ॥४९॥ सोऽप्य मुक्तस्ततश्चन्द्रस्वामी तमनुजामृतम्। अप्राप्यारभ्यत पुत्रं महीपाल गवेषयन् ॥५०॥ भ्रमन्नब्धेस्तटे प्राप्य नाम्ना जलपुरं पुरम्। प्रविबेशातिथीभूत्वा गृहं विप्रस्य कस्यचित् ॥५१॥ तत्र मुक्तोत्तराख्यातस्ववृत्तान्तं समासतः। तं स विप्रो गृहपतिश्चन्द्रस्वामिनमभ्यधात् ॥५२॥ वणिक्कनकवर्माख्योऽतीतेष्वगाद्दिनेष्विह । तेनाटव्यां स्वसूनुस्त प्राप्तो ब्राह्मणदारकः ॥५३॥ तौ चादायातिभव्यौ द्वौ दारको स इतो गतः। नारिकेलमहाद्वीपे नोक्तं तन्नाम तेन तु ॥५४॥ तच्छ्रुत्वा मामकावेव नूनं ताविति चिन्तयन्। चन्द्रस्वामी मतिं चक्रे गन्तुं द्वीपवरं सवम् ॥५५॥ नीत्वा च रात्रिमन्विष्य वणिजा विष्णुवर्मणा। स व्यधात् सङ्गतिं द्वीप नारिकेलं प्रमास्यता ॥५६॥ तेनैव च सहारुह्य यानपात्रं जगाम सः। चन्द्रस्वामी सुतस्नेहाद् द्वीपमब्धिपथेन तम् ॥५७॥ तत्र पृच्छन्तमूचुस्तं वणिजस्सनिवासिनः। वणिक्कनकवर्माख्यः काममासीदिहागतः ॥५८॥ सुरूपारटवीप्राप्तावादाय द्विजदारकौ। गतः कटाहद्वीप तु तद्युक्तः स इतोऽधुना ॥५९॥ तच्छ्रुत्वा स ततो विप्रो वणिजा दानवर्मणा। पोतेन गच्छता साकं कटाहद्वीपमभ्यगात् ॥६०॥ तत्रापि स द्विजोऽशृण्वीद् गतं तं वणिजं ततः। द्वीपात् कनकवर्म्माणं द्वीप कर्पूरमंगलम् ॥६१॥ एवं क्रमेण कर्पूरसुवर्णद्वीपसिंहलान्। वणिग्भिः सह गत्वापि न प्राप वणिजं स तः ॥६२॥