भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 695, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 695

१४८ कथासरित्सागर

ततस्तं पिङ्गलदासाख्यो मन्त्री विमलमभ्यधात्। एक एवास्त्युपायोऽत्र तं देव शृणु साम्प्रतम्॥९३॥ अस्ति स्थूलशिरा नाम यक्षस्तस्य च वद्म्यहम्। मन्त्रमाराधनं येन वरमिष्टं ददाति सः॥९४॥ तेनोपास्तेन मन्त्रेण यक्षमाराध्य सम्प्रति। लिङ्गं याचस्व पुत्रार्थं सद्यः शाम्यतु विग्रहः॥९५॥ इत्युक्तो मन्त्रिणा तस्मान्मन्त्रमादाय तं नृपः। सुतार्थं यक्षमाराध्य स तं लिङ्गमयाचत॥९६॥ तेन सम्प्रति दत्तं च लिङ्गं यक्षेण तत्सुतः। पुमांस्प्रभाकरः सोऽभूद्यक्षस्त्वासीन्नपुंसकः॥९७॥ सा तु विद्याधरी दृष्ट्वा पुमांसं तं प्रभाकरम्। तेन परया सहावाप्तरससौख्या व्यचिन्तयत्॥९८॥ भ्रान्ताहं मददोषेण न मे भर्त्ता नपुंसकः। पुमानेवैष सुभगो नात्र कार्यान्यथा मतिः॥९९॥ इत्यालोच्यैनमेवार्थं लिखित्वा लज्जिता पुनः। पित्रे सा प्राहिणोल्लेखं शमं भेजे च तेन सः॥१००॥ एतत् ज्ञात्वा च वृत्तान्तं भैरवेणाथ कुप्यता। मानाम्य स स्थूलशिराः शप्तो देवेन गुह्यकः॥१०१॥ लिङ्गत्यागेन यच्छश्वद्भावितं मत्प्रिया ततः। षण्ढ एव भवाजीवं पुमान् सोऽस्तु प्रभाकरः॥१०२॥ एवं नपुंसकीभूतो गुह्यकः सोऽथ दुःसहाम्। प्रभाकरश्च पुरुषीभूतो भोगसुखाय सः॥१०३॥ तदेतेनाथ कार्येण देवस्यागमने मनाक्। जातो विलम्बः क्षिप्राच्च जानीतायन्तमेव तम्॥१०४॥ इति नारायणी देवी मातृभिरिदमब्रवीत् सा। देवश्चण्डेश्वरस्तावदाययौ सोऽत्र भैरवः॥१०५॥ सम्पूजितश्च सर्वाभिरुपहारैः स मातृभिः। ताण्डवेन क्षणं नृत्यंश्चक्रीडेयोगिनीसखः॥१०६॥ तञ्च सर्वं तरोः पृष्ठाच्चन्द्रस्वामी विलोकयन्। मारायच्या वदर्शाका शासी सापि तमक्षत॥१०७॥