कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 697, कुल 1079 में से
संदर्भ में पढ़ें६५० कथारित्सागर अन्योन्यसामिलाषौ च दयावृद्धौ तौ बभूवतुः। सा च नारायणी देवी तथामूतौ विवेद तौ ॥१०८॥ गतेऽथ मातृसहिते भैरवे सा विलम्ब्य तम्। नारायणी पादपस्थं चन्द्रस्वामिनमाह्वयत् ॥१०९॥ मवरुह्यागतं स च स्वदासीं सां च सा ततः। पप्रच्छ कश्चिदन्योन्यमभिलाषोऽस्ति वामिति ॥११०॥ अस्ति देवीति विज्ञप्ता ताभ्यां तथ्यं ततश्च सा। देवी विमुक्तकोपा तं चन्द्रस्वामिनमभ्यधात् ॥१११॥ सत्येनोक्तेन तुष्टाऽहं युवयोर्न शपामि वाम्। ददाम्येतां सु दासीं ते भवतं निर्वृतौ युवाम् ॥११२॥ तच्छ्रुत्वा सोऽब्रवीद्विप्रो देवि यद्यपि चञ्चलम्। मनो रुणध्मि तदपि स्पृशामि न परस्त्रियम् ॥११३॥ मनसः प्रकृतिश्चैषा रक्ष्यं पापं तु कायिकम्। इत्यूचिवांसं तं धीरं विप्रं देवी जगाद सा ॥११४॥ प्रीतास्मि ते वरश्चायं पुत्रादीञ्शीघ्रमप्स्यसि। इदं चोत्पलम्मम्लानं विपादिघ्नं गृहाण मे ॥११५॥ इत्युक्त्वा नीरजं दत्त्वा चन्द्रस्वामिद्विजस्य सा। नारायणी सदासीका देवी तस्य तिरोदधे ॥११६॥ स च प्राप्तोत्पलो रात्रौ क्षीणायां प्रस्थितस्ततः। तारापुरं तन्नगरं प्राप विप्रः परिभ्रमन् ॥११७॥ यत्रास्य स स्थितः पुत्रो महीपालः सुता च सा। अनन्तस्वामिनस्तस्य गृहे विप्रस्य मन्त्रिणः ॥११८॥ तत्र गत्वा स तस्यैव मन्त्रिणो भोजनेप्सया। द्वारे प्राग्र्यमनं चक्रे भूत्वा तमतिथिं प्रियम् ॥११९॥ स च मन्त्री प्रतीहारैराज्ञेयान्तः प्रवेशितम्। न्यमन्त्रयत दृष्ट्वैव विद्वांसं भोजनाय तम् ॥१२०॥ निमन्त्रितोऽथ स श्रुत्वा तत्र पापहरं सरः। चन्द्रस्वामी ययौ स्नातुमगस्त्यह्रदसंज्ञकम् ॥१२१॥ आगच्छति ततः स्नात्वा यावत्तावत्समन्ततः। हाकष्टशब्दं शुश्राव नगरे तत्र स द्विजः ॥१२२॥