भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 701, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 701

१५४ कथासरित्सागर राज्यस्य र्खा हि बुद्ध्वा सा रूप सेनास्मि विस्मृता। इति श्रुत्वा शपेज्जातु पुत्रातिचिरकुक्षिता ॥१३८॥ मातापितृभ्यां शप्त सन् जातु सुखमश्नुते। तथा चतां पुरावृत्तां वणिक्पुत्रकथां शृणु ॥१३९॥ चक्रधरगत लोभवत्पुत्रयोः कथा चक्रो नाम वणिक्पुत्रो धवलाख्येऽभवत्पुरे। सोऽनिच्छतोरगात्पित्रो स्वर्णद्वीपं वणिग्गया ॥१४०॥ तत स पञ्चभिर्वर्षैरुपार्जितमहाधनः। आगच्छन्नारुरोहाग्र्यौ वहन रत्नपूरितम् ॥१४१॥ अल्पावशेषे गन्तव्ये वारिधौ तस्य चोन्नदन्। उदतिष्ठन् महावातवर्षवेगाकुलोऽम्बुद ॥१४२॥ पित्राववमन्यैष किमायातः इतीव तम्। क्षोधारप्रवहण तस्य निर्बभञ्जुर्गहोर्मयः ॥१४३॥ तस्या रूडेपि हतास्तोयमकरैः कुत्रपि भक्षिताः। चक्रस्त्वायूर्वलाभीत्वा तीरे क्षिप्तश्च वीचिभिः ॥१४४॥ सत्रस्तो निसह स्वप्न इव रौत्रासिताकृतिम्। पाशहस्त ददर्शैक पुरुष स वणिक्सुत ॥१४५॥ तेनोत्क्षिप्य च नीतोऽभूत्स चक्रः पाशवेष्टितः। दूरं सिंहासनस्थेन पुरुषेणाधिष्ठां सभाम् ॥१४६॥ तस्याज्ञायासनस्थस्य तेनैव स वणिग्युवा। नीत्वा पाशमुता लोहमये गेहे न्यवेश्यत ॥१४७॥ तत्रान्तः पीड्यमानं स चक्रः पुरुषमैक्षत। मूर्ध्नि तप्तेन लोहेन चक्रेण भ्रमतामिधम् ॥१४८॥ कस्स्त्वं केनाधुनेनेव तव जीवस्यहो कथम्। इत्यपृच्छत् स चक्रन्तं सोऽप्येव प्रत्युवाच तम् ॥१४९॥ शृङ्गाख्योऽहं वणिक्पुत्र पित्रोर्यच्च वचो मया। न कृतं तेन सङ्क्रुद्धौ तौ मामशपतां क्रुधा ॥१५०॥ धिट्स्त्वायससन्तप्तचक्रभ्रमी नौ दुनोपि यद्। तदीदृश्येव ते पीडा दुराचार भविष्यति ॥१५१॥ इत्युक्त्वा तौ विरम्पोभौ रुदन्त मामबोधताम्। मा रोदीरेकमेवास्तु मासं पीडा तवेद्‌दृशी ॥१५२॥