भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 711, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 711

३६४ कथासरित्सागर पुरे त्रिभुवनाख्येऽहं राजा त्रिभुवनाभिधः। तत्र मे सुचिरं सेवामेकः पाशुपतो व्यधात् ॥२१२॥ । ॥२१३॥ स पृष्टः कारणं स्वैरं बिलखङ्गप्रसाधने। सहायं प्रार्थयत मां प्रतिपन्नं मया च तत् ॥२१४॥ ततो मया सहारण्यं गत्वा होमादिना निधि। प्रकटीकृत्य विवरं स मां पाशुपतोऽभ्यधात् ॥२१५॥ वीर प्रविश पूर्वं त्वं खड्गं प्राप्य च मामपि। प्रवेशयेस्त्वं निर्गत्य समयं चात्र मे कुरु ॥२१६॥ इत्युक्तस्तेन तस्याहं कृत्वा समयमाशु तत्। प्रविश्य विवरं प्रापमेकं रत्नमयं गृहम् ॥२१७॥ ततो निर्गत्य मां चैका प्रधानासुरकन्यका। अन्तः प्रावेशयत्प्रेम्णा प्रादात्खड्गं च सात्र म् ॥२१८॥ सर्वसिद्धिप्रदमिमं खड्गं खगतिदायिनम्। रक्षेत्युक्तवत्याहं तया तत्रावस सह ॥२१९॥ स्मृत्वाथ खड्गहस्तोऽहं निर्गत्य विवरेण तम्। प्रावेशयं पाशुपतं तस्मिन्नसुरमन्दिरे ॥२२०॥ सप्ताहमभव्या साकं तया सपरिवारया। सोऽपि द्वितीयया साकमासीदसुरकन्यया ॥२२१॥ एकदा पानमत्तस्य स मे पाशुपतःक्रमात्। हृत्वा पार्श्वस्थितं खड्गमकरोन्निजहस्तगम् ॥२२२॥ तस्मिन् हस्तस्थिते लब्धमहासिद्धिः स पाण्डितः। मामादायैव निष्कास्य विवरात् प्राक्षिपद्बहिः ॥२२३॥ ततो द्वावशवर्षाणि मया बिलमुखेषु सः। गवेषितः कदाचित् निर्गतं प्राप्नुयामिति ॥२२४॥ सोऽयमद्येह मे दृष्टिपथे निपतितः शठः। मदीययैतया साकं श्रीलक्षसुरकन्यया ॥२२५॥ इति यावत्त्रिभुवन स राजा वेत्रि ब्रक्ति माम्। तावत्पानमदाभिद्रामगात्पाशुपतोऽत्र सः ॥२२६॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 711, कुल 1079 में से · BharatKosha