कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 721, कुल 1079 में से
संदर्भ में पढ़ें१७४ कथासरित्सागर
तत्रासीत् प्रेम दम्पत्योर्गौरीशर्वोर्बिकं तयोः। शर्वस्य गौरी देहार्धं तस्य त्वात्मैव साभवत् ॥२८५॥ कालेन चन्द्रसेनाख्यं दमयन्ती नखात्सुतम्। प्रसूते स्म तदन्वेकामिन्द्रसेनां च कन्यकाम् ॥२८६॥ तावच्च स कलिश्छिद्रं तस्यामुच्छास्त्रवर्तिनः। मस्र्स्यासीच्चिरं चिन्वन्प्रतिज्ञातार्थनिश्चितः ॥२८७॥ वर्षेकवानुपास्यैव सन्ध्यामक्षालिताङ्घ्रिकः। स सुष्वाप नलः पानमदेन मुषितस्मृतिः ॥२८८॥ छिद्रमेतदवाप्यैव दत्तदृष्टिर्दिवानिशम्। कलिस्तस्य शरीरान्तर्नलस्य प्रविवेश सः ॥२८९॥ तेन देहप्रविष्टेन कलिना स नलो नृपः। विहाय धर्म्यमाचारमाचचार यथारुचि ॥२९०॥ मक्षैरदीव्यद्दासीभिररस्तासत्यमब्रवीत् । असेवत दिवा स्वप्नं स जगागार रात्रिषु ॥२९१॥ अकारात्कारणं कोपमन्यायेमार्थमाददे। अवमानं सतां चक्रे सम्मानमसतां च सः ॥२९२॥ तद्भावं पुष्करास्मै सथैवोक्तास्तत्सखम्। छिद्रं प्राप्य शरीरान्तःप्रविष्टो द्वापरो व्यधात् ॥२९३॥ कदाचित्पुष्कराख्यस्य गृहे तस्यानुजस्य सः। नलो ददर्श दान्ताख्यं सुन्दरं धवलं वृषम् ॥२९४॥ लोभामृग्यमानाय त तस्मै ज्यायसे न सः। द्वापरप्रस्ततद्बुद्धिः पुष्कराख्यो वृषं ददौ ॥२९५॥ जगाद च यद्यस्ति वाञ्छास्मिन्वृषभे तव। तद्द्यूतेन विजित्यैनं मस स्वीकुरु मा चिरम् ॥२९६॥ तच्छ्रुत्वा स नलो मोहान् प्रतिपेदे तथेति तत्। घत प्रवृत्ते द्यूतं तयोर्भ्रात्रोः परस्परम् ॥२९७॥ पुष्कराख्यस्य स वृषो नलस्यैमादय पणः। जिगाय पुष्कराख्यश्च नलो मुहुर्जीयत ॥२९८॥ न्निदेद्मित्रबले कोष हारितेऽपि दुरोदरात्। न नलो वार्यमाणोऽपि चचाल कलिबिप्लुतः ॥२९९॥