कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 723, कुल 1079 में से
संदर्भ में पढ़ें१७६ कथासरित्सागर तेन मत्वा गतं राज्यं दमयन्ती निजौ शिशू। रथोत्तमे समारोप्य प्राहिणोत्स्वपितुर्गृहम् ॥३००॥ सावशेषेन राज्यं स्वं समग्रमपि हारितम्। ततः स पुष्कराख्येन जगदे जितकाशिना ॥३०१॥ त्वयाद्यहारितं सर्वं सतस्योष्णः पणस्य मे। दमयन्तीमिदानीं त्वं द्यूते प्रतिपणं कुरु ॥३०२॥ इत्युक्तिवातव्याधूतस्तस्य नलोऽनल इव ज्वलन्। न चाकालेऽब्रवीत्किञ्चिन्न च चक्रे पणक्रियाम् ॥३०३॥ ततः स पुष्कराख्यस्तमवादीन्न करोषि चेत्। भार्यां पणं तदस्मान्मे देशान्निर्याहि तत्समः ॥३०४॥ सच्छुरेकैव नलो दशाहमयनत्या समं ततः। निरगाद्राजपुरुषा सीमान्तं प्रवासितः ॥३०५॥ हा नलस्यापि यत्रैवंभावस्था कठिना कृता। तत्रोच्यतां किमप्यर्शां क्रिमीणामिव देहिनाम् ॥३०६॥ धिग्धिग्छिन्नधर्मं निस्नेहं राजर्षीणामपीदृशाम्। विपवामास्पदं द्यूतं कस्तित्वापरजीवितम् ॥३०७॥ अथ भ्रातृहतैश्वर्यो विदेशं स नलो व्रजन्। दमयन्त्या सह प्राप क्षुधाक्लान्तो वनान्तरम् ॥३०८॥ तत्र साकं तया दर्शमिक्षपक्षरुपावया। स विद्यान्तं सगस्तीरे हंसौ दार्णशतागतौ ॥३०९॥ आहाराय च स तयोर्ग्रहणायाोत्तरीयकम्। चिक्षेप तच्च हृत्वैव हंसौ तौ तस्य जग्मतुः ॥३१०॥ हंसरूपेण तावेतावक्षौ वासोऽप्यपहृत्य ते। हृत्वा गताविति नभः स वाच माशृणोद्दिवः ॥३११॥ उपविश्यैकवस्त्रोऽथ स युक्त्या विमना नृपः। पन्थानं दर्शयामास दमयन्त्याः पितुर्गृहे ॥३१२॥ अयं मार्गो विदर्भेषु प्रिये पितृगृहे तव। अयमङ्गेषु मार्गोऽयमपरः कोशलेषु च ॥३१३॥ तच्छ्रुत्वा दमयन्ती सा शङ्कितेवामवत्तदा। त्यक्ष्यत्यिकार्यं पुत्रो मे मार्गं वि बकरयसाविति ॥३१४॥