भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 741, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 741

शक्तियशो नाम दशमो लम्बकः १५ गुरुगिरीन्द्रजाप्रणयमम्बरास्योत्सना स्फुरा किस कृपामृत हरमुखाभ्युषरुद्गतम्। प्रसङ्ग रसयन्ति ये विगतविघ्नरूढ्यर्द्धयो धुरं दधति वैबुधीं मूर्ध्नि भवप्रसादेन ते ॥ प्रथमस्तरङ्गः मङ्गलाचरणम् अवारणीय¹ रिपुभिर्वारणीयं करं नुमः। हेरम्बस्य ससिन्दूरमसि दूरमपच्छिदम् ॥१॥ पायाद्वः पुरदाहाय शम्भोः सन्नद्धतं शरम्। समं व्यग्रेषु नेत्रेषु तृतीयमधिकं स्फुरत् ॥२॥ रक्तारुणा नृसिंहस्य कुटिला विद्रिषो वधे। नखश्रेणी च दृष्टिश्च निहन्तु दुरितानि वः ॥३॥ नरवाहनदत्तकथा (पूर्वानुवृत्ता) एवं वत्सेश्वरसुतः कौशाम्ब्यां सचिवैः सह। नरवाहनदत्तः स तस्थौ भार्यासखः सुखी ॥४॥ एकदा चास्थिते तस्मिन्नास्थानस्थस्य तत्पितुः। वत्सेश्वरस्य विज्ञप्त्यै तत्रासीद् वणिगागमौ ॥५॥ स रत्नदत्तनामा तं प्रतीहारनिवेदितः। प्रविश्य नत्वा राजानं वणिगेव व्यजिज्ञपत् ॥६॥ अत्र मङ्गले विरोधाभासोऽलङ्कारः। यथा—अ-वारणीयम् वारणीयम् स-सिन्दूरम् मसिदूरम्—इति। अत्र वारणस्य = गजस्येदं वारणीयम्=गजसम्बन्धि। न वारणीयम् अवारणीयम् अप्रतिरोध्यम्। सिन्दूरेण सहितं ससिन्दूरम्—सिन्दूरलिप्तम् असि-ऋत दूरं = दूरे इत्यर्थः, ईदृशं करं—शुण्डादण्डं नुमः=नमामि ।