कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 747, कुल 1079 में से
संदर्भ में पढ़ेंशुभदत्त न वत्सि त्वं क्षिप हस्तं घटान्तरे । यथेष्टं लप्स्यसे सर्वं घटः कामप्रदो ह्यसौ ॥३३॥ तच्छ्रुत्वा प्रक्षिपत्यन्तं पाणिं यावद् घटान्तरे । तावदाहारपानादि कामितं दृष्टवानसौ ॥३४॥ १ शुभदत्तो ददौ तेभ्यो बुभुजे च स्वयं सह ॥३५॥ एवं परिचरन् यक्षान् भक्त्या भीत्या च सोऽन्वहम् । तस्थौ कुटुम्बचिन्तान्नः शुभदत्तस्तदन्तिके ॥३६॥ तत्कुटुम्बं च क्षुत्तार्तं स्वप्नादेशेन गुह्यकैः । आश्वासितं तत्प्रसादान्नभोते स्म ततश्च सः ॥३७॥ मासमात्रेण यक्षास्ते शुभदत्तं तमब्रुवन् । तुष्टाः स्मस्तेऽनया भक्त्या ब्रूहि किञ्चिद्ददाम ते ॥३८॥ तच्छ्रुत्वा स जगावैतांस्तुष्ट्रा स्वं यदि सत्यतः । एष भद्रघटस्ते मे युष्माभिर्दीयतामिति ॥३९॥ ततस्तमूचुर्यक्षास्ते नैनं शक्ष्यसि रक्षितुम् । भग्नः पलायते ह्येष तद्गृणीष्वापरं वरम् ॥४०॥ इत्युक्तोऽपि स यक्षैस्तैः शुभदत्तोऽपरं यदा । वरं नैच्छत्तदा तस्मै ते तं भद्रघटं ददुः ॥४१॥ ततः प्रणम्य तान् हृष्टो घटमादाय तं जगात् । गृहं स शुभदत्तः स्वं प्रापं तन्वितबान्धवः ॥४२॥ तत्र तस्माद्घटात्सर्व्वा भोज्यादि निवेश्य तत् । गुप्यर्थमश्मभाण्डेषु सोऽभुङ्क्त स्वजनैः सह ॥४३॥ भारमुक्तो भजत्भोगान्वानमत्तोऽथ जातु सः । कुतस्त्वैषा भोगश्रीरित्युपृच्छ्यत बन्धुभिः ॥४४॥ स व्यक्तमब्रुवन् मूढो गर्वोपस्तितकामदम् । गृहीत्वा घटकं स्कन्धे प्रारेभे यत् नतितुम् ॥४५॥ नत्यतस्तस्य च स्कन्धान्मदोद्रक्तस्खलद्गतः । स भद्रघटका यातः पतित्वा भुवि खण्डशः ॥४६॥ १ एतत्पद्यार्धं मूलपुस्तके त्रुटितमस्ति । २ मद्यमदमत्ततया स्खलितचरणस्येत्यर्थः ।