कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 751, कुल 1079 में से
संदर्भ में पढ़ें७४ कथासरित्सागर इत्यालोच्य स पुत्रेण सहैवेश्वरवर्मणा । यमजिह्वाभिधानायाः कुट्टन्याः सदनं ययौ ॥५९॥ तत्र स्थूलहनुं दीर्घदशनां भुग्ननासिकाम् । शिक्षयन्तीं दुहितरं कुट्टनीं तां ददर्श स ॥६०॥ धनेन पूज्यते पुत्रि सर्वो वेश्या विशेषतः । तच्च नास्त्यनुरागिण्या रागं वेश्या त्यजेदत ॥६१॥ दोषाप्रदूतो रागो हि वेश्यापश्चिमसन्ध्ययोः । मिथ्यैव दर्शयेद्वेश्या तं नटीव सुशिक्षिता ॥६२॥ रञ्जयेत्तेन सा पूर्वं दुह्याद्रक्तं ततो धनम् । दुग्धार्थं च त्यजेदन्ते प्राप्तार्थं पुनराहरेत् ॥६३॥ समो यूनि शिशौ वृद्धे विरूपे रूपवत्यपि । वेश्याजनो यो मुनिवत्स चार्थं परमश्नुते ॥६४॥ इति ब्रुवाणां दुहितुस्तामुपागात्स कुट्टनीम् । रत्नवर्मा कृतातिथ्यस्तया च समुपविशत् ॥६५॥ अब्रवीत्ताञ्च पुत्रो मे त्वयार्य शिष्यतामयम् । वेश्योपचारकलां येन वैदग्ध्यं प्राप्नुयादसौ ॥६६॥ दीनाराणां सहस्रं च निष्क्रयं ते ददाम्यहम् । तच्छ्रुत्वा तस्य कामं स प्रतिपेदे तथेति सा ॥६७॥ ततो वितीर्य दीनारान् पुत्रं तस्यै समर्प्य च । स तमीश्वरवर्माणं रत्नवर्मा ययौ गृहम् ॥ ६८॥ अथात्रेश्वरवर्मा स यमजिह्वागृहे वसन् । वर्षेणैकेन शिक्षित्वा पितुस्तस्य गृहं ययौ ॥६९॥ प्राप्तषोडशवर्षश्च पितरं तमुवाच स । अर्थाद्धि धर्मकामौ न पूज्यार्थविधंत प्रजा ॥७० ॥ एवमुक्तवते तस्मै श्रद्धाम न तथेति तत् ! पञ्चानां द्रव्यकोटीनां भाण्डं¹ प्रीतो ददौ पिता ॥७१॥ तदादाय वणिक्पुत्रः ससार्थः स शुभेऽहनि । प्रायादीश्वरवर्माथ स्वर्णद्वीपाभिवाञ्छया ॥७२॥ १ अत्र किञ्चित्त्रुटितं नास्ति । २ विक्रेयद्रव्यम् । मुद्रितोऽयं पाठः ।