कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 761, कुल 1079 में से
संदर्भ में पढ़ें४३४ कथासरित्सागर इत्युक्त्वा सोऽर्धदन्तेन तेनानीयत सत्वरम्। आश्वास्येश्वरवर्मासौ पितुः पार्श्वमुपागतः ॥१३१॥ पित्रा चैकसुतस्नेहात् सान्त्वयित्वैव तन सः। नीतोऽभूच्चमचित्ताया कुट्टन्या निकटं पुनः ॥१३२॥ पृष्टश्चात्र तयाश्वस्यो सार्श्वदन्तमुखं तम्। स्वोदन्तं सुन्दरीकूपनिपातान्तं धनक्षयम् ॥१३३॥ यमजिह्वा ततोऽब्रवीदहमेवापराधिनी। यद्विस्मृत्य मया मायामत्तामेवं न शिक्षितः ॥१३४॥ कूपे मकरकट्या हि जाल्मन्तर्न्यधम्यतः। तत्पृष्ठे सुन्दरी देहमक्षिपन्न ममार यत् ॥१३५॥ तदत्रास्ति प्रतीकार इत्युक्त्वा सापि कुट्टनी। आनाययत्स्ववासीभिरालुं नाम स्वमर्कटम् ॥१३६॥ दत्त्वाग्रे स्वं च दीनारसहस्रं तमुवाच सा। निगिलेति शतं सोऽपि शिक्षितस्तन्निगीर्णवान् ॥१३७॥ पुत्रास्मै विंशतिं देहि देह्यस्मै पञ्चविंशतिम्। षष्टिमस्मै शतं चास्मा इति मानाख्यमेषु च ॥१३८॥ दाप्यमानो निगीर्णांस्तांस्तयाग्रे यमजिह्वया। उद्गीर्योद्गीर्य दीनारांस्तत्तथैव स कपिर्ददौ ॥१३९॥ आत्मयुक्तिं प्रदर्शैतां यमजिह्वाब्रवीत्सुतम्। गृहाणेश्वरवर्मंस्त्वमेतं मर्कटपोतकम् ॥१४०॥ पुनस्तत्सुन्दरीवेश्म प्राग्वद् गत्वा दिने दिने। एवं गुप्तनिगीर्णांस्ता मुञ्चयस्वामृता व्यये ॥१४१॥ दृष्ट्वा चिन्तामणिप्रख्यं सतमालं च सुन्दरी। दत्त्वा ते प्रार्थ्य सर्वस्वं कपिमेकं ग्रहीष्यति ॥१४२॥ गृहीतवस्नो दत्त्वा निगीर्णाहूंतयंमयम्। इमं तस्यै ततो दूरं यायास्त्वमविलम्बितम् ॥१४३॥ इत्युक्त्वा यमजिह्वा तत्समायीश्वरवर्मणे। मर्कटं तं ददौ भाण्डं पिता कोटिद्वयस्य च ॥१४४॥ तद्गृहीत्वैव स प्रायात्तत्काञ्चनपुरं पुनः। सृष्टाप्रदूतं सुन्दर्या तद्गृहं प्रविवेश च ॥१४५॥