भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 763, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 763

सा तं साधनसर्वस्वं निर्ग्रन्थमिव सुन्दरी। अभ्यनन्दत् । ससूहूव कण्ठाश्लेपादिसम्भ्रमः ॥१४६॥ विश्वास्येश्वरवर्माणं तत्समक्षं क्षणान्तरे। आछमानय गत्वेति सोऽर्षदत्तमभाषत ॥१४७॥ तथेति तेन गत्वा च समानीयत मर्कटः। निर्मीर्णपूर्वदीनारसहस्रं स जगाद तम् ॥१४८॥ बाल पुत्र प्रयच्छाशु दीनाराणां शतत्रयम्। आहारपानस्य कृते ताम्बूलादिश्यये शतम् ॥१४९॥ शतं मकरकट्याय च वेश्याम्बाय द्विजातिषु। क्षत शेषं सहस्रात्तत्सुन्दर्यै तत्समर्पय ॥१५०॥ एवमीश्वरवर्मोक्तो मर्कट स तभव तान्। उद्गीर्योद्गीर्य दीनारान् प्राङ्निगीर्णान्यथेष्वदात् ॥१५१॥ इत्य युक्त्यानया नित्यं यावदीश्वरवमणा। आत्तो व्ययेषु दीनारान्वाप्यते पक्षमात्रकम् ॥१५२॥ तावन्मकरकट्यथ सुन्दरी च व्यचिन्तयत्। अहो चिन्तामणिरयं सिद्धोऽस्य कपिरूपधृत् ॥१५३॥ दिने दिने सहस्रं यो दीनाराणां प्रयच्छति। एषोऽमुना चेषस्माकं वत्त सिद्ध मनोरथैः ॥१५४॥ इत्यालोच्य समं मात्रा विजनऽर्भयते स्म सम्। सुन्दरीश्वरवर्माणं भुक्तोत्तरसुखस्थितम् ॥१५५॥ प्रसादो मयि सत्यं चेशारूभेतं प्रयच्छ मे। तच्छ्रुत्वेश्वरवर्मा तां निजगाद हसन्निव ॥१५६॥ असौ तातस्य सर्वस्वं तच्च दातुं न युज्यत। इत्यूचिवांस च पुन सुन्दरी तमुवाच सा ॥१५७॥ ददामि पञ्चकोटीस्त्वमेतदथ दीयतामिति। तत ईश्वरवर्मा च निश्चित्यव जगाद तम् ॥१५८॥ ददासि यदि सर्वस्वमिदं वा नगर मम। तथापि युज्यते नैष दातुं किमिति कोटिभिः ॥१५९॥ श्रुत्वैतत्सुन्दरी स्माह सर्वस्वं त ददाम्यहम्। देहोतं मकट मह्यमम्बा कुप्यतु नाम मे ॥१६०॥