कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 769, कुल 1079 में से
संदर्भ में पढ़ें७१२ कथासरित्सागर विधूयास्मान् कृतघ्नाय दलवद्विग्रहस्त्वया। तच्छ्रिवायाधुनापीह मदीयं वचनं कुरु॥११॥ अवहृत्य द्विपावस्मादादाय च सुरङ्गमम्। एतान्यविषयं यामो जीवन् जेतास्यरीन् पुनः॥१२॥ इति मन्त्रिगिरा स्वैरमवतीर्य स वारणात्। हयारूढः समं तेन स्ववलाभिर्मयौ पुनः॥१३॥ ययौ च वेषच्छन्नः सन् सहितस्तेन मन्त्रिणा। राजा विक्रमसिंहोऽसौ क्रमादुज्जयिनीं पुरीम्॥१४॥ तस्यां कुमुदिकाख्यायाः प्रख्यातवसुसम्पदः। मन्त्रिवितीया वसतिं विलासिन्या विवेश सः॥१५॥ अकस्मात्तं गृहायातं दृष्ट्वा सापि व्यचिन्तयत्। पुण्यातिशयः कोऽपि ममायं गृहमागतः॥१६॥ तेजसा लक्ष्मणेनेष महान् राजेति शङ्क्यते। तन्मे यथेप्सितं सिद्ध्यद्यद्येषस्वीकृतो भवेत्॥१७॥ इत्यालोच्य समुत्थाय स्वगतेनाभिनन्द्य च। चकार महदातिथ्यं राज्ञः कुमुदिकास्य सा॥१८॥ विश्रान्तं च जगादैनं राजानं सा क्षणान्तरे। धन्याहमद्य सुकृतं प्राक्तनं फलितं मम॥१९॥ देवेन स्वयमागत्य यद्गृहं मे पवित्रितम्। तदनेन प्रसादेन क्रीता दासीयमस्मि ते॥२०॥ यदस्ति मे हस्तिशतं हयानां द्वे तथाथुते। मन्दिरं पूर्णरत्नं च तदायत्तमिदं तव॥२१॥ इत्युक्त्वा सा कुमुदिका राजानं समुपाचरत्। स्नानादिनोपचारेण महार्हेण समन्त्रिकम्॥२२॥ ततस्तन्मन्दिरे साकं तया तत्रार्पितस्वया। राजा विक्रमसिंहोऽसौ निशस्तिस्रो मवायसत्॥२३॥ बुभुजे द्रविणं तस्या याचकेभ्यो ददौ च सः। न च सादर्शयत्तस्य विकारं तुष्यति स्म तु॥२४॥ अहो मय्यनुरक्तेयमिति तुष्टं ततो नृपम्। तं सोऽनन्तगुणो मन्त्री रहोऽवादीत् सहस्थितः॥२५॥