भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 77, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 77

५६ कथासरित्सागर मानुषो मर्कटीभूतो विप्रोऽहं मां समुद्धर । कथयिष्यामि ते साद्यो स्ववृत्तान्तं ततोऽखिलम् ॥९० एतच्छ्रुत्वैव साश्चर्यो मृत्तिकामपनीय स । भूमेर्निश्चयदत्तस्तमुज्जहाराथ मर्कटम् ॥९१ उद्धृत पादपतितस्तं भूयोऽपि स मर्कटः । उवाच दत्ता प्राणा मे कृच्छ्रादुद्धरता त्वया ॥९२ तदेहि यावच्छ्रान्तस्त्वमुपयुङ्क्ष्व फलाम्बुनी । स्वप्रसादादहं चापि करिष्ये पारणं चिरात् ॥९३ इत्युक्त्वा तमनेषीत्स दूरं गिरिनदीतटम् । कपि स्वाधीनसुस्वादुफलसञ्छायपादपम् ॥९४ तत्र स्नात्वापभुक्ताम्बुफलः स कृतपारणम् । कपिं निश्चयदस्तस्तं प्रत्यागम्य ततोऽब्रवीत् ॥९५ कथं त्वं मर्कटीभूतो मानुषोऽप्युच्यतामिति । ततः स मर्कटोऽवादीच्छृण्विदानीं वदाम्यहम् ॥९६ वानररूपिणः सोमस्वामिब्राह्मणस्य कथा चन्द्रस्वामीति नाम्नास्ति वाराणस्यां द्विजोत्तमः । तस्य पत्न्यां सुवृत्तायां जातोऽस्म्येथ सुत सखे ॥९७ सोमस्वामीति पित्रा च कृतनामा क्रमादहम् । [L20: प्राप्तो मदनव्यालगज मर्दनिरङ्कुशम् ॥९८ सो मां कदाचिदद्राक्षीद्वारादूर्ध्वावातायनाग्रगा । श्रीगर्भाख्यस्य वणिजस्तत्पुरीवासिनः सुता ॥९९ तरुणी बन्धुदत्ताख्या माथुरस्य वणिक्पतेः । भार्या वराहदत्तस्य पितुर्गेहमवस्थिता ॥१०० सा मदालोकसञ्जातमन्मथान्विष्य नाम मे । वयस्यां प्राहिणोदाप्तां मह्यं मत्सङ्गमाथिनी ॥१०१ सा तद्वयस्या कामान्धामुपगम्य ममान्तिकम् । आख्याततदभिप्राया मामनैषीन्निजं गृहम् ॥१०२ तत्र मां स्थापयित्वा च गत्वा गुप्तं तदैव सा । तां बन्धुदत्तामानैषीदौत्सुक्यागणितत्रपाम् १॥१०३ १ औत्सुक्येनकामावेशतया न गणिता त्रपा यया सा।