भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 785, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 785

१८ कथासरित्सागर स प्रविष्टोऽत्र पुरुषो नैवाभ्यासितुमोजसा । शशाक तस्याः पर्यङ्के न्यषीदत् पुष्पासने ॥१२५॥ तद्दृष्ट्वा बत नीचोऽयमिति यावद्विषीदति । राज्ञी सा तावदत्रागादुपरिष्टाद् भ्रमन्नहिः ॥१२६॥ तं विलोक्य भयोत्थाय सहसा पुरुषोऽत्र सः । धनुरादाय भुजगं जघान विशिखेन तम् ॥१२७॥ विपन्नपतितं तं च गवाक्षात्क्षिप्तवान्बहिः । हर्षेण तन्मयोत्तीर्णो मनर्त स च कातरः ॥१२८॥ नृत्यन्तं वीक्ष्य तं खिन्ना सा कल्याणवती भृशम् । दध्यौ धिग्विधिमेतेन निःसत्त्वेनाधमेन मे ॥१२९॥ दृष्ट्वैव तद्विरक्तां तां चित्तज्ञा सा च तत्सखी । निर्गत्याशु प्रविश्यात्र जगाद कृतसम्भ्रमा ॥१३०॥ आगतस्ते पिता देवि तदयं यातु सम्प्रति । यथागतेनैव पथा स्वगृहं त्वरितं युवा ॥१३१॥ एव तयोक्ते निर्याते रज्ज्वा वातायनाद्बहिः । भयाकुलः स पतितो न दैवात् पञ्चतां गतः ॥१३२॥ गते तस्मिन्नुवाचैतां सा कल्याणवती सखीम् । सखि सुष्ठु कृतं नीचो यत्त्वयैष बहिष्कृतः ॥१३३॥ शान्तं त्वया मे हृदयं चेतो हि मम दूयते । भर्त्ता मे व्याघ्रसिंहादीन्विपाट्यापहृतो ह्रिया ॥१३४॥ अयं तु भुजगं हत्वा हीनसत्त्वः प्रनृत्यति । तत्तादृशं तं हित्वा किमस्मिन्मे प्राकृते रतिः ॥१३५॥ तदप्रतिष्ठितमतिं धिङ् मां धिगथवा स्त्रियः । या धावन्त्यगुणे हित्वा कर्पूरं मक्षिका इव ॥१३६॥ इति जातानुतापा सा राज्ञी नीत्वा निशां ततः । प्रतीक्षमाणा भर्त्तारमासीत्तत्र पितुर्गृहे ॥१३७॥ तावत्स दत्तान्यबलो गजानीकेन भूभुजा । गत्वा तान्प्राग्जयान्यस्य पापात्सिंहवतोऽब्रवीत् ॥१३८॥ ततः स सम्प्राप्य पुनः स्वराज्यमानीय भार्यां च पितुर्गृहात्ताम् । प्रपूज्य तं च श्वशुरं धनोपेतोऽनिष्कण्टकां क्ष्मां सुचिरं शशास ॥१३९॥