भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 787, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 787

कथासरित्सागर इति प्रवीरे सुभग च सल्पतौ विवेकिनीनामपि दैव योषिताम् । चलं मनो धावति यत्र कुत्रचिद्विदुश्चसत्त्वा विरला पुनः स्त्रियः ॥१४०॥ इति मरुभूतिनिगदितामाकर्ण्य कथां स वत्सराजसुतः । नरवाहनदत्तस्तां सुखसुप्तो नीतवान् रजनीम् ॥१४१॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके द्वितीयस्तरङ्गः । तृतीयस्तरङ्गः नरवाहनदत्तकथा (पूर्वानुवृत्ता) ततः प्रातः कृतावश्यकरायं स सचिवैः सह । नरवाहनदत्त स्वमुद्यानं विहरन्ययौ ॥१॥ तत्रस्थश्च प्रभापुञ्जमादौ व्योम्नोऽप्यनन्तरम् । ततो विद्याधरीवल्लीरवत्तीर्णा ददर्श सः ॥२॥ तासां मध्य च दीप्तानां ददर्शेकां स कन्यकाम् । ताराणामिव शीतांशुलेखां लोचनहारिणीम् ॥३॥ विकसत्पद्मवदनां लोललोचनषट्पदाम् । सलीरुहसगमनां बह्दुत्पलसौरभाम् ॥४॥ तरङ्गहारित्रिवलीस्त्रासन्नतमध्यमाम् । साक्षादिव स्मरोद्यानवापीशोभाभिदेवताम् ॥५॥ स्मरसञ्जीवनीं तां च दृष्ट्वा सोत्कलिकामतः । चान्द्रीं मूर्तिमिवाम्भोधिश्शुशुभे स नृपात्मजः ॥६॥ अहो सुन्दरनिर्माणवैचित्री वाप्यसौ विधेः । इति शंसन् स सचिवः सहितस्तामुपाययौ ॥७॥ तिर्यक्प्रमार्द्या दृष्ट्या पश्यन्ती सा च स क्रमात् । पप्रच्छ का त्वं कल्याणि किमिहागमनं च ते ॥८॥ तच्छ्रुत्वा साऽब्रवीत्कन्या शृणुतेतद्वदामि यः । अशितघनाख्यः कौशाम्ब्याभागमनम् अस्ति काञ्चनशृङ्गाख्यं पुरं हैमं हिमाचले ॥९॥ तत्रास्ति नाम्ना स्फटिकयशा विद्याधरेश्वरः । धार्मिक कृपनानाधशरण्यामृतबरसम् ॥१०॥