भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 79, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 79

५८ कथासरित्सागर आनीतेव च सा मेऽत्र कण्ठाश्लेषमुपागमत्। एकवीरो हि नारीणामतिभूमिं गतः स्मरः ॥१०४॥ एवं दिने दिने स्वैरमागत्यात्र पितुर्गृहात् । अरस्त बन्धुदत्ता सा मया सह सखीगृहे ॥१०५॥ एकदा तां निजगृहं नेतुं तत्र चिरस्थिताम् । आगतः स पतिम्मन्या मधुरातो महावणिक् ॥१०६॥ तत पित्राभ्यनुज्ञाता पत्या तेन निनीषिता । रहस्यज्ञां द्वितीयां सा बन्धुदत्ताऽब्रवीत् सखीम् ॥१०७॥ निश्चितं सखि नेतव्या भर्त्राहं मधुरां पुरीम् । न च जीवाम्यहं तत्र सोमस्वामिबिनाकृता ॥१०८॥ तदत्र कोऽप्युपायो मे कथ्यतामुचिता तथा। सखी सुलशया नाम योगिनी तां जगाद सा ॥१०९॥ द्वौ स्तो मन्त्रप्रयोगौ मे ययोरेकेन सूत्रके । कण्ठबद्धे क्षणादेव मानुषो मर्कटो भवेत् ॥११०॥ द्वितीयेन च मुक्तेऽस्मिन्सूत्रके सैष मानुषः । पुनर्भवत्कपित्वे न नास्य प्रज्ञा विलुप्यते ॥१११॥ यद्यदीच्छति सुश्रोणि सोमस्वामी प्रियः स सं । तवैतं मर्कटंक्षिप्रं सम्प्रत्येव करोम्यहम् ॥११२॥ तत क्रीडानिभादेतं गृहीत्वा मधुरां व्रज । [L21: मन्त्रयुक्तिद्वयं चैतद् भवतीं शिक्षयाम्यहम् ॥११३॥ संविधास्यसि येनैतं पार्श्वस्थं मर्कटाकृतिम् । रहःस्थाने च पुरुषं प्रियं सम्पादयिष्यसि ॥११४॥ एवमुक्ता तया सख्या बन्धुदत्ता तथैव सा । रहस्यानय्य सस्नेहं सर्वर्थं मामबोधयत् ॥११५॥ कृतानुज्ञं च मां बद्धमन्त्रसूत्रं गले क्षणात् । तत्सखी सा सुलशया व्यधाम्मर्कटपोतकम् ॥११६॥ तद्रूपञ्च स्वभर्त्रे सा बन्धुदत्तोपनीय माम् । सख्या मह्यं विनोदाय दत्तोऽसावित्यदर्शयत् ॥११७॥ अतुष्यत् स च मां दृष्ट्वा क्रीडनीयं तदङ्गजम् । अहञ्च कपिरेवासं प्राशोऽपि व्यक्तवागपि ॥११८॥