भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 791, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 791

७४४ कथासरित्सागर प्रविशत्विति राज्ञोक्ते प्रतीहारनिवेशन । भिल्लकन्या नृपास्थानप्राङ्गणं प्रविवेश सा ॥२६॥ न मानुषीयं दिव्यस्त्री कापि नूनमसाविति । सर्वैरप्यचिन्त्यस्तत्र दृष्ट्वा तद्रूपमद्भुतम् ॥२७॥ सा च प्रणम्य राजानमेवं व्यज्ञापयत्तदा । देवाय सर्व्वशास्त्रज्ञोऽस्येनतुर्वेदघरः शुकः ॥२८॥ कविः कृत्स्नासु विद्यासु कलासु च विचक्षणः । भयैश्वरोपयोगित्वादहानीतोऽय गृह्यताम् ॥२९॥ इत्यर्पितस्तमादाय प्रतीहारेण कौतुकात् । नीतोऽग्रे नृपतेरेनं शुकः श्लोकं पपाठ सः ॥३०॥ राजन्युक्तमिदं सदैव यदयं दवस्य समुद्द्यते । धूमश्याममुखो द्विषद्विरहिणीनिःश्वासवातोद्गमैः । एतत्त्वद्भुतमेव यत्परिमषाद्वाष्पाम्बुपूरप्लवै- र्गाढं प्रज्वलतीह दिक्षु वणसु प्राप्य प्रतापानलः ॥३१॥ एवं पठित्वा व्याख्याय शुकोऽवादीत् पुनश्च सः । किं प्रमेयं कुत शास्त्राद्ब्रवीम्याविश्यतामिति ॥३२॥ ततोऽतिविस्मितं राज्ञि मन्त्री तस्याब्रवीन्निदम् । शङ्के शापाच्छुकीभूतः पूर्व्वर्षि कोऽप्ययं प्रभो ॥३३॥ जातिस्मरो धर्मवशात् पुरासीत स्मरत्यतः । इत्युक्ते मन्त्रिणा राजा स शुकं पृच्छति स्म तम् ॥३४॥ कौतुक भद्र मे ब्रूहि स्ववृत्तान्त क्व जन्म ते । शुकत्वे शास्त्रविज्ञानं कुत को वा भवानिति ॥३५॥ शुकस्यात्मकथा तत स बाष्पमुत्सृज्य ववति स्म शुकः शनै । अवाच्यमपि वैवंत्तच्छृणु वच्मि त्वाज्ञया ॥३६॥ हिमवन्निकटे राजंस्तस्येको रोहिणीतरुः । आम्नाय इव दिव्यापिभूरिशाखाश्रितद्विजः ॥३७॥ १ आम्नायपक्षे—भूरिशाखाश्रिता द्विजाः यस्य तरुपक्षे—भूरिशाखासु आश्रिता, द्विजाः=पक्षिणो यस्य ।

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 791, कुल 1079 में से · BharatKosha