भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 795, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 795

४४८ कथासरित्सागर तत्रापश्यं कृतस्नानमहं सरत्सैकतस्थितम् । मुनिं मरीचिनामानं पूर्वपुण्यमिवात्मनः ॥५३॥ स मां दृष्ट्वा समाश्वास्य मुखक्षिप्तोदबिन्दुभिः । कृत्वा पत्रपुटेऽनैषीदाश्रमं कृपया मुनिः ॥५४॥ तत्र दृष्ट्वा कुलपतिर्मां पुलस्त्यः किलाहसत् । तेनान्यमुनिभिः पृष्टो दिव्यदृष्टिरुवाच सः ॥५५॥ इमं शापशुकं दृष्ट्वा दुःखेने हसितं मया । वक्ष्यामि चैतत्सम्बद्धां कथां वो विहिताह्निकः ॥५६॥ जातिं यच्छ्रवणादेष प्राग्वृत्तं च स्मरिष्यति । इत्युक्त्वा स पुलस्त्यश्चिराह्निकाद्योत्थितोऽभवत् ॥५७॥ कृताह्निकश्च मुनिभिः पुनरभ्यर्थितोऽत्र सः । मत्सम्वद्धां कथामेतां महामुनिरवर्णयत् ॥५८॥ सोमप्रभमकरन्दिकाभर्त्तूरत्नप्रभायाः कथा आसीज्ज्योतिष्प्रभो नाम राजा रत्नाकर पुरे । आरत्नाकरमुर्वी यः शशासोजितशासनः ॥५९॥ तस्य तीव्रतपस्तुष्टगौरीपतिवरोद्भवः । हर्षवत्यभिधानायां पुत्रो दम्यामजायत ॥६०॥ स्वप्ने मुखप्रविष्टं यत्सोमं वक्री ददर्श सा । तेन सोमप्रभं नाम्ना तं चक्रे स्वसुतं नृपः ॥६१॥ ववृधे च स तन्वानः प्रजानां नयनोत्सवम् । राजपुत्रोऽमृतमयैर्गुणैः सोमप्रभः क्रमात् ॥६२॥ दृष्ट्वा भरक्षमं शूरं युवानं प्रकृतिप्रियम् । यौवराज्येऽभ्यषिञ्चत्तं प्रीतो ज्योतिष्प्रभः पिता ॥६३॥ प्रभाकराभिधानस्य तनयं निजमन्त्रिणः । ददौ प्रियङ्करं नाम मन्त्रित्वे चास्य सद्गुणम् ॥६४॥ तत्कालमम्बरादद्य दिव्यमादाय मातलिः । अवतीर्णस्तमभ्येत्य सोमप्रभमभाषत ॥६५॥ विद्याधरः सखा शक्रस्यावतीर्णो भवानिह । तेन बान्धवा मानं शकेणाञ्चैषवत्सुत ॥६६॥ पूर्वस्नेहेन तं राजन् प्रहितस्तुरगोत्तमः । अमानुषश्च शत्रूणामजय्यत्वं भविष्यसि ॥६७॥