भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 85, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 85

६४ कथासरित्सागर स्त्रियाः सखे वशं मा गाः स्त्रीचित्तं ह्यतिदुर्गमम्। तथा च मम यद्वृत्तं तदिदं वच्मि ते शृणु ॥१४९॥ वाराणस्यामिहैवासीत्तरुणी रूपशालिनी। ब्राह्मणी सोमदा नाम चपला गुप्तयोगिनी ॥१५०॥ तया च सह मे दैवात् समभूत्सङ्गमो रहः। तत्सङ्गमक्रमात्तस्यां मम प्रीतिरवर्धत ॥१५१॥ एकदा तामहं स्वैरमीर्ष्याकोपादताडयम् । तन्नासहिष्ट सा क्रूरा कोपं प्रच्छाद्य तत्क्षणम् ॥१५२॥ अन्येद्युः प्रणयक्रीडाव्याजाच्च मम सूत्रकम्। गले बद्धावहं ध्वान्तस्तत्क्षणं बलवोऽभवम् ॥१५३॥ ततोऽहं बलदीभूतस्तया दान्तोष्ट्रजीविनः। एकस्य पुंसो विक्रीतो गृहीताभीष्टमूल्यया ॥१५४॥ समारोपितभारं मां क्लिश्यमानमवेक्षत। बन्धमोचनिका नाम योगिन्यथ कृपान्विता ॥१५५॥ सा ज्ञानतः सोमदया विदित्वा मां पशूकृतम्। मुमोच कण्ठात् सूत्रं मे मद्गोस्वामिन्यपश्यति ॥१५६॥ ततोऽहं मानुषीभूतः स च क्षिप्राद्विलोक्यमाम्। पलायितं मां मन्वानो मत्स्वामी प्राभ्रमद्दिशः ॥१५७॥ अहं च बन्धमोचिन्या तया सह ततो व्रजन्। दैवादागतया दूराद्दृष्टः सोमदया तया ॥१५८॥ सा क्रोधेन ज्वलन्ती तां ज्ञानिनीं बन्धमोचिनीम्। अवादीत्किमय पापस्तिर्यक्त्वान्मोचितस्त्वया ॥१५९॥ धिग्प्राप्स्यसि दुराचारे फलमस्य कुकर्मणः। प्रातस्त्वां निहनिष्यामि सहितां पाप्मनामुना ॥१६०॥ इत्युक्त्वैव गतायां च तस्यां सा सिद्धयोगिनी। तत्प्रतीघातहेतोर्मामवाचद्वन्धमोचिनी ॥१६१॥ हन्तुं मां कृष्णतुरगीरूपेणाभ्युपेष्यति। मया च घोषबडवारूपमत्राभियिष्यते ॥१६२॥ ततो युद्धे प्रवृत्ते नौ पृष्ठतः खड्गपाणिना। सोमदायां प्रहर्त्तव्यं त्वयास्यामप्रमादिना ॥१६३॥