भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 863, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 863

८१२ कथासरित्सागर काककूर्ममृगाखूनां कथा¹ अभूत्क्वापि वनोद्देशे महाञ्छाल्मलिपादपः । उवास लघुपातीति काकस्तत्र कृतालयः ॥५८॥ स कदाचित् स्वनीडस्थो ददर्शान्ते तरोरधः । जालहस्तं समागच्छन् रौद्रं लुब्धकमागतम् ॥५९॥ ततः स वीक्षते यावत्काकस्तावद्वितत्य सः । जालं भुवि विकीर्यात्र व्रीहींश्छन्नोऽभवत्पुमान् ॥६०॥ तावच्च चित्रग्रीवास्यः पारावतपतिर्भ्रमन् । तत्राजगाम नभसा पारावतशतैर्वृतः ॥६१॥ स व्रीहिप्रकरं दृष्ट्वा जालेऽप्याहारलिप्सया । पतितः पाशनिकरैर्बद्धोऽभूत्सपरिच्छदः ॥६२॥ तद्दृष्ट्वा चानुगान् सर्वांश्चित्रग्रीवो जगाद सः । गृहीत्वा चञ्चुभिर्जालं समुत्पतत वेगतः ॥६३॥ ततस्तथेति ते जालमादायोत्पत्य वेगतः । कपोता नभसा गन्तुं भीताः प्रारेभिरेऽखिलाः ॥६४॥ सोऽप्युत्थायोर्ध्वदृग्विघ्नो लुब्धकः समवर्तत । निर्भयोऽथ जगादैतांश्चित्रग्रीवोऽनुयायिनः ॥६५॥ मममित्रस्य हिरण्यस्य मूषकस्यान्तिकं द्रुतम् । व्रजामः स इमांश्पाशांश्छित्त्वाऽस्मान् मोचयिष्यति ॥६६॥ इत्युक्त्वा सोऽनुगैः सार्धं गत्वा तैर्जालकर्षिभिः । मूषकस्य बिलद्वारं प्राप्याकाशादवातरत् ॥६७॥ भो भो हिरण्य निर्याहि चित्रग्रीवोऽहमागतः । इत्याजुहाव तं तत्र मूषकं स कपोतराट् ॥६८॥ स श्रुत्वा द्वारमार्गेण दृष्ट्वा तं चागतं सखा । सुहृत् निर्ययावाशुस्तस्माच्छतमुखाद् बिलात् ॥६९॥ १ पञ्चतन्त्रस्य मित्रसंप्राप्तिप्रकरणस्य मूलकथा । यथा— असाधना वित्तहीना बुद्धिमन्तः सुहृत्तमाः । साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥ इत्येषा कथात्र वर्णिता ॥