भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 893, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 893

८४४ कथासरित्सागर

यदि सोऽपि न जातस्ते तत्तत्सर्वं किं करिष्यसि । इत्यवार्यत सा पापादार्यया बुद्धया तया ॥२९३॥ एवं पतन्त्यकार्येपु डाकिनीसङ्गताः स्त्रियः । वृद्धोपदेशेन तु ता रक्ष्यन्ते कृतयन्त्रणा ॥२९४॥

मूर्ख सेवक कथा

अयमामलकानेता देवेदानीं निशम्यताम् । कस्याप्यभूद् गृहस्थस्य भृत्यः कश्चन मुग्धधीः ॥२९५॥ समादिशद् गृहस्थस्तं भृत्यमामलकप्रियः । गन्धारामात् सुमधुराण्यामयामंलकानि मे ॥२९६॥ एकैकं दशनच्छेदेनास्वाद्यानीतवाञ्जडः । आस्वाद मधुराण्येता यानीतानीक्षतां प्रभुः ॥२९७॥ सोऽब्रवीत्सोऽपि तान्यक्ष्णोच्छिष्टान्यालोक्य कुत्सया । अहो गृहपतिस्तन मूर्खेनाबुद्धिना समम् ॥२९८॥ निष्प्रज्ञो नाशयत्येव प्रभोरर्थमथात्मनः । अन्तरा चात्र शृणुत भ्रातृद्वयकथामिमाम् ॥२९९॥

बन्धुद्वयस्य कथा

ब्राह्मणौ भ्रातारावास्तां पुरे पाटलिपुत्रके । यशःसोम इति ज्येष्ठ कीर्त्तिसोमोऽस्य चानुजः ॥३००॥ पित्र्यं चाभूद्धनं भूरि तयोर्ब्राह्मणपुत्रयोः । कीर्त्तिसोमो निजं भागं व्यवहारादवर्धयत् ॥३०१॥ यशःसोमस्तु भुञ्जानो ददच्चाप्यनयत्क्षयम् । तत' स निर्धनीभूतो निजां भार्यामभाषत ॥३०२॥ प्रिये धनाढ्यो भूत्वाहमिदानीं निर्धनः कथम् । वसामि मध्ये बन्धूनां सद्धिरेदं तथाऽवहम् ॥३०३॥ पाथेयेन विना कुत्र याव इत्युदिते तया । निर्बन्धं स यदा चक्रे तदा भार्या तमाह सा ॥३०४॥ अवश्यं यदि गन्तव्यं तद् गत्वा कीर्त्तिसोमतः । मृगयस्व धनं किञ्चित् पाथेयमनुजादिति ॥३०५॥ ततो गत्वानुजं यावत् पाथेयं तं स मार्गति । तावत्तदनुजः सोऽत्र जगदे भार्यया स्वया ॥३०६॥ स्थापितस्वधनायास्म द्वयं दद्मः कुतः कियत् । य एव हि दरिद्रः स्यात् स एवास्मान्भजिष्यति ॥३०७॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 893, कुल 1079 में से · BharatKosha