भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 911, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 911

४६२ कथासरित्सागर सममभ्युदयमाश्चर्यं मत्वा यावन्निरीक्षते । विवस्तत्र वणिक्तावत्कोणे चौरं ददर्श तम् ॥८६॥ उपकार्यसि मे तत्त्वां न मृत्यवेऽतिसृजाम्यहम् । इत्युक्त्वा सोऽथ चौरं तं रक्षित्वा प्राहिणोद् वणिक् ॥८७॥ एवं रक्ष्योज्प्यमस्माकं चिरजीव्युपकारकः । इत्युक्त्वा दीप्तनयनो मन्त्री तूष्णीं बभूव सः ॥८८॥ ततोऽन्यं वक्रनासाख्यं मन्त्रिणं कौशिकेश्वरः । स पृच्छति स्म किं कार्यं सम्यग्वक्तुं भवानिति ॥८९॥ वक्रनासस्ततोऽवादीद्वध्योऽप्य परमम्बित् । अस्माकमेतयोर्वैरं श्रेयसे स्वामिमन्त्रिणोः ॥९०॥ राक्षसचौर्योः कथा निदर्शनायैषा दैव श्रूयतामत्र वच्मि ते । कश्चित्प्रतिग्रहेण द्वे गावो प्राप द्विजोत्तमः ॥९१॥ तस्य दृष्ट्वाथ चौरस्ते गावो नेतुमचिन्तयत् । तत्कालं राक्षसः कोऽपि समैच्छत् खादितुं द्विजम् ॥९२॥ तदद्य निशि गच्छन्तौ दैवात्तौ चौरराक्षसौ । मिलित्वाऽन्योन्यमुक्तार्थौ यत्र प्रययतुः समम् ॥९३॥ अहं धेनू हराम्यादौ त्वद्गृहीतो ह्ययं द्विजः । सुप्तो यदि प्रबुध्येतद्वेरयं गोयुगं कथम् ॥९४॥ मव हराम्ह पूर्वं विप्रं मोचेद्वृथा मम । भवद्गोपुरशब्देन प्रबुद्धेऽस्मिन् परिश्रमः ॥९५॥ इति प्रविश्य तद्विप्रसदनं चौरराक्षसौ । यावतौ कलहायेतं तावत्प्राबोधि स द्विजः ॥९६॥ उत्थायात्तकृपाणं च तस्मिन् रक्षोघ्नजापिनि । त्रासाणे जग्मतुश्चौरराक्षसौ द्वौ पलाय्य तौ ॥९७॥ एवं तयोर्मिथो भङ्गो हितायाभूद्द्विजन्मनः । तथा भेदो हितोऽस्माकं शत्रोश्चिरजीविनोः ॥९८॥ इत्युक्तो वक्रनासेन कौशिकेन्द्रः स्वमन्त्रिणम् । तं च प्राकारकर्णाख्यमपृच्छत्सोऽप्यवाच तम् ॥९९॥