कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 930, कुल 1079 में से
संदर्भ में पढ़ें८८० कथासरित्सागर महिषमूर्खकथा कस्यचिन्महिषः कैश्चिद्ग्राम्यैर्ग्रामस्य वाह्यतः । नीत्वा वटस्तल भित्त्वावाटे व्यापाय भक्षितः ॥२१३॥ तेन गत्वाथ विज्ञप्तो महिषस्वामिना नृपः । ग्राम्यानानाययामास स तान् महिषभक्षकान् ॥२१४॥ तत्समक्ष स राजाग्रे महिषस्वाम्यभाषत । तडागनिकटे देव नीत्वा वटतरोरधः ॥२१५॥ एभिर्मे महिषो हत्वा भक्षितः पश्यतो जडैः । तच्छ्रुत्वान्येषु तूष्णीकेष्वेको वृद्धमूर्खोऽब्रवीदिदम् ॥२१६॥ तडाग एव नास्त्यस्मिन् ग्रामे न च वटः क्वचित् । मिथ्या वक्त्येष महिषः क्व हतो भक्षितोऽस्य वा ॥२१७॥ श्रुत्वैतन्महिषस्वामी सोऽब्रवीद्भास्ति किं वटः । तडागश्च स पूर्वस्यां दिशि ग्रामस्य तस्य च ॥२१८॥ अष्टम्यां च स युष्माभिर्भक्षितो महिषाऽत्र मे । इत्युक्तस्तेन स पुनर्वृद्धमूर्खोऽब्रवीदिदम् ॥२१९॥ पूर्वा दिगेव नास्त्यस्मद्ग्रामे नाप्यष्टमी तिथिः । एतच्छ्रुत्वा हसन् राजा तमाहोत्साह यच्छ्रडम् ॥२२०॥ त्वं सत्यवादी नासत्यं किञ्चिद्वदसि सुम्मम । सत्यं ब्रूहि स युष्माभिः किं भुक्तो महिषो न वा ॥२२१॥ एतच्छ्रुत्वा जडोऽब्रवीन्मृते पितरि वत्सरे । त्रिभिर्जातोऽस्मि तेनैव शिक्षितोऽस्म्युक्तिपाटवम् ॥२२२॥ तवत्सत्यं महाराज न कदाचिद्वदाम्यहम् । भुक्तोऽस्य महिषोऽस्माभिरस्यद्वक्ति मृषाह्यसौ ॥२२३॥ श्रुत्वैतत्सानुगो राजा हासं रोद्धुं स नाशक्तत् । निर्यात्य महिषं तस्य तांश्च ग्राम्यानदण्डयत् ॥२२४॥ इत्यगुह्यं निगूहन्ते गुह्यं प्रकटयन्ति च । मौर्घ्याभिमानेनादातुं मूर्खाः प्रत्ययमात्मनि ॥२२५॥ कश्चिद्धरिख गृहिणी षण्ढी मूर्खमभाषत । प्रातः पितृगृहं यास्याम्युत्सवेऽस्मि निमन्त्रिता ॥२२६॥