कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 932, कुल 1079 में से
संदर्भ में पढ़ें८८२ कथासरित्सागर तत्त्वयोत्पलमालैका नानीता चेत्कुतोऽपि मे। तन्न भार्यास्मि ते नापि भर्त्ता मम भवानिति॥२२७॥ खर्वस्तद्दर्पो रात्रौ स राजकीयसरो ययौ। तत्र प्रविष्टश्च कोऽसीति दृष्ट्वापृच्छत्तं रक्षकः॥२२८॥ चक्रवाकोऽस्मीति च वदन् बद्ध्वा नीतः प्रगे स तैः। राज्ञाग्रे पृच्छ्यमानश्च चक्रवाकरुतं व्यधात्॥२२९॥ ततः स राजा हसितः स्वयं पृष्टोऽनुबन्धिना। मूर्खः कश्चित्सवृत्तान्तो मुक्तो दीनो यथाहतः॥२३०॥ कश्चिच्च मूर्खभीषक् केनाप्युक्तो द्विजन्मना। क्रकचं मम पुत्रस्य कुब्जस्याभ्यन्तरं नय॥२३१॥ एतच्छ्रुत्वाब्रवीद्वैद्यो दश देहि पणान् मम। ददामि ते दशगुणान्साधयामि न चेदिदम्॥२३२॥ एवं कृत्वा पणं तस्माद् गृहीत्वा तान् पणान्द्विजात्। स च स्वदाविभिः कुब्जमभजत्केवलं भिषक्॥२३३॥ न चाशकत् स्पष्टयितुं ददौ दशगुणान् पणान्। को हि कुब्जमृजूकर्तुं शक्नुयादिह मानुषम्॥२३४॥ हासायैवाशक्यार्थप्रतिज्ञानविकत्थनम् । तदीदृशैर्मूढमार्गे सञ्चरेत न बुद्धिमान्॥२३५॥ इति भद्रमुखात्स गोमुखात्ख्यातसचिवा मुग्धकथा निशम्य रात्रौ। नरवाहनदत्तराजापुत्रः सुमतिः प्रीतमनास्तुतोष तस्मै॥२३६॥ अभजच्च स तत्कथाविनोदान्छनकः शक्तियशःसमुत्सुकोऽपि। शयनीयमुपागतोऽथ निद्रां सवयोभिः सहितो निजैर्वयस्यैः॥२३७॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके षष्ठस्तरङ्गः। सप्तमस्तरङ्गः गोमुखकथिता नवा मधुरा कथा। ततः प्रातः प्रबुद्धस्तां स शक्तियशसं प्रियाम्। नरवाहनदत्तोऽत्र ध्यायन् व्याकुलतां ययौ॥१॥