कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 936, कुल 1079 में से
संदर्भ में पढ़ें[header] ८८६ कथासरित्सागर [/header]
कश्चित्कनकपर्यङ्कमानीयात्र न्यवेशयत् । कश्चितस्ततार तस्मिंश्च तूलिकां प्रच्छदोत्तराम् ॥११६॥ केचित् पुष्पाङ्गरागादि पानमाहारमुत्तमम् । आनीय स्वापयामासुरेकमेकं तरोस्तले ॥११७॥ ततो वापीतलात्तस्माद्रूपेण जितमन्मथः । उदगात्पुरुषः खड्गी दिव्याभरणभूषितः ॥११८॥ तस्मिंस्तत्रासनासीने क्लृप्तमाल्यानुलेपनाः । सर्वे परिजनास्तस्यां वाप्यामेव ममज्जिरे ॥११९॥ अथोज्जगार स सुखादेकां भव्याकृतिं प्रियाम् । विनीतवेषां मञ्जुस्तमाल्याभरणधारिणीम् ॥१२०॥ द्वितीयां चातिरूपाढ्यां सद्वस्त्राभरणोज्ज्वलाम् । ते च भार्ये उभे तस्य पश्चिमा वल्लभा पुनः ॥१२१॥ ततोऽत्र रत्नपात्राणि न्यस्य पात्रद्वये तयोः । भर्तुः सपत्न्याश्चाहारं पानं चोपानयत्सती ॥१२२॥ तयोर्भुक्तवतोः सापि बुभुजे सोऽप्य तत्पतिः । पर्यङ्कशयनं भेजे तया साकं द्वितीयया ॥१२३॥ अनुभूय रतिक्रीडासुखं निद्रां जगाम सः । आद्या च भार्या सा तस्य पादसंवाहनं व्यधात् ॥१२४॥ द्वितीया साप्यनिद्रैव तस्याभूच्छयने प्रिया । दृष्ट्वैतत्तौ विप्रपुत्रौ तस्थतुर्धर्तुमिष्व ॥१२५॥ कोऽयं स्यादवतीर्यैतत् पादवाहिकामिमाम् । एतस्य किन्न पृच्छावः सर्वे ह्यविकृता अमी ॥१२६॥ अवतीर्याथ तौ यावदाद्यां तामुपसर्पतः । ययोधर तयोस्तावद्द्वितीया सा ददर्श तम् ॥१२७॥ उत्थाय शयनात् पत्युः सुप्तस्मोहामघापह्ला । तमुपेत्य सुरूपं सा मां भजस्वेत्यभाषत ॥१२८॥ पापे त्वं परदारा मे तथाहं परपूरुषः । तत्किमेवं ब्रवीषीति तेनोक्ता साब्रवीत् पुनः ॥१२९॥ त्वादृशानां भतन्नाह सङ्गता किं भयं तव । न चान्यस्यापि पश्यैतद्गृह्णीष्वशतं मम ॥१३०॥