कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 938, कुल 1079 में से
संदर्भ में पढ़ें४८८ कथासरित्सागर एकैकमङ्गुलीयं हि हृतमकैकशो मया। इत्युक्त्वा स्वाञ्चलात्तस्मायङ्गुलीयान्यदर्शयत् ॥३१॥ ततो यशोधरोऽवादीत् सङ्कुचध्वं शतेन वा। लक्षेण वा मम त्वं तु माता नाहं तवाविषः ॥३२॥ एव निराकृता तेन सा प्रबोध्य पतिं क्रुधा। यशोधरं तं सन्दर्श्य जगाद रुदती शठा। ३३॥ अनेन पाप्मना सुप्ते त्वय्यहं ध्वंसिता बलात्। तच्छ्रुत्वैव स उत्तस्थौ खड्गमाकृष्य तत्पतिः ॥३४॥ अथान्यया सा सती भार्या तं गृहीत्वैव पादयोः। अब्रवीन्मा कृथा मिथ्या पापं शृणु वचो मम ॥३५॥ अनया पापया दृष्ट्वा त्वत्पार्श्वोत्थितया हठात्। अर्थितोऽयं वशो नास्याः साधुस्तत्प्रत्यपद्यत ॥३६॥ माता मम त्वमित्युक्त्वा यदनेन निराकृता। प्राबोधयदधर्मात् त्वां वधायतस्य कोपतः ॥३७॥ अनया मत्समक्षं च रात्रिष्विह तरौ स्थिता। हृताङ्गुलीयका भुक्ताः शतसंख्याः प्रगोऽध्वगाः ॥३८॥ द्वेषसम्भावनमगम्या मया चोक्तं न जातु ते। अद्य त्वत्पापभीत्यैवमबाध्यमहमब्रवम् ॥३९॥ वस्त्राञ्चलग्नेऽङ्गुलीयानि पश्यास्याः प्रत्ययो न चेत्। न चैष मे सतीधर्मो यद्गत्यनृतं वचः ॥४०॥ सतीत्वप्रत्ययायमं प्रभावं पश्य मे प्रभो। इत्युक्त्वा भस्म चक्रे सा तद् यं क्रोधवीक्षितम् ॥४१॥ प्रसाददृष्टे च पुनस्तं पूर्वाभ्यधिकं व्यधात्। तद्दृष्ट्वा स चिराद् भर्त्ता तुष्टस्तामुपगूहवान् ॥४२॥ निरास च द्वितीयां तां छित्त्वा नासां कुगेहिनीम्। अङ्गुलीयानि सम्प्राप्य तद्वस्त्रान्तात्स उत्पसि ॥४३॥ क्षमयामास किल तं दृष्ट्वाभ्ययनपाठकम्। यशोधरं भ्रातृपुत्रं संनिवेद्य जगाद च ॥४४॥ भार्ये हृदि निघायैते रक्ष्यामोऽप्यविघातसदा। तथाप्येषा न शकिता पापैका रक्षितुं मया ॥४५॥