कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 948, कुल 1079 में से
संदर्भ में पढ़ें८९८ कथासरित्सागर यद्यपि त्वं न कुरुषे नेच्छस्येषा तथाप्यहम्। ब्रवीमि विदुष ह्येवं जनानां निह्रुतेः कथम्॥१०५॥ स तावदस्या भार्यायास्तत्कालोत्थो महागदः। विना वानरहृत्पद्मयूषं न शममेति यः॥१०६॥ इत्युक्तः स प्रियासख्या शिशुमारो व्यचिन्तयत्। कष्टं वानरहृत्पद्मं कुतः सम्प्राप्नुयामहम॥१०७॥ सख्युः करोमि धग्द्रोहं कपस्तत्किं ममोचितम्। सख्या किमथवा भार्या प्राणेभ्योऽप्यधिकप्रिया॥१०८॥ इत्यालोच्य स्वभार्यां तां शिशुमारो जगाद सः। तद्यानिष्याम्यखण्डं ते कपिं किं ब्रूयसे प्रिये॥१०९॥ इत्युक्त्वा स ययौ तस्य मित्रस्य निकटं कपेः। यथाप्रसङ्गमन्याद्य तमेवमवदत् कपिम्॥११०॥ अद्यापि न सखे दृष्टं गृहं भार्या च मे त्वया। तदेहि तत्र गच्छावो विध्यमार्यकमप्यहम्॥१११॥ भुज्यते यत्र नात्येत्य गृहमभ्य निरर्गलम्। प्रनृत्यन्त न दाराश्च कृतैव तन्न सोङ्गवम्॥११२॥ इति प्रतार्य जलभाववतार्याधिलम्ब्य च। वानरं शिशुमारस्तं गन्तुं प्रवृत्तोऽथ सः॥११३॥ गच्छन्तं तं स दृष्ट्वा च मानरहृच्चिन्ताकुलम्। सखेऽप्यापुद्यमद्य त्वां पश्यामीति स पृष्टवान्॥११४॥ नियन्धनाप पृच्छन्त मत्वा हस्तस्थितं च तम्। प्लवङ्गमं जगादथ शिशुमारो जहाशयः॥११५॥ अस्वस्था मे स्थिता भार्या सा च पथ्योपयोगि माम्। याचते कपिहृत्पद्मं तेनाद्य विमनाः स्थिता॥११६॥ श्रुत्वैतत्स भषस्तस्य कपिः प्राज्ञो व्यचिन्तयत्। हन्ततदर्थमानीय पापेनाहमिहामुना॥११७॥ अहो स्त्रीव्यसनाक्रान्तो मित्रद्रोहेऽप्युद्यतः। किं वा दन्तैः स्वमांसानि भूतग्रस्ता न खादति॥११८॥ इत्थं गच्छिन्नथ च प्राह शिशुमारं स वानरः। यद्येवं तत्त्वयतन्मे किं नास्तं प्रथमं मये॥११९॥