भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 970, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 970

११८ कथासरित्सागर रन्त्वा च तेन साकं सा दत्त्वा चार्थं तमब्रवीत्। दास्याम्ययमभूतं ते पुनरेष्यसि यदिति॥४६॥ ततो निर्गत्य वृत्तान्तमाख्यायार्थं समर्प्य च। व्यसृजत्प्राप्य राजार्थं घटं गेहं स कर्परः॥४७॥ स्वयं तत्रैव तु पुनर्विवेशान्तःपुरं स तत्। आकृष्टः कामलोभाभ्यामपायं को हि पश्यति॥४८॥ तत्रैव सुरतश्रान्तः पानमत्तस्तया सह। राजपुत्र्या समं सुप्तो न बुबोध गतां निशाम्॥४९॥ प्रातः प्रविष्टैर्लब्ध्वा स बद्धवान्तःपुररक्षिभिः। राज्ञे निवेदितः सोऽपि क्रुधा तस्यादिशद्वधम्॥५०॥ यावत् स नीयते वध्यभुवं तावत् सखास्य सः। रात्रावनागतस्यागादन्वेष्टुं पदवीं घटः॥५१॥ तमागतं स दृष्ट्वाथ घटं कर्परकः पुनः। हृत्वा राजसुतां रक्षेत्याह स्म स्वसञ्ज्ञया॥५२॥ घटनाङ्गीकृतेऽच्छोऽथ सममेव स कर्परः। नीत्वोत्तम्भ्य तरौ क्षिप्रं वधकेरवणो हृतः॥५३॥ ततो गत्वा घटो गेहमुक्षोचन्निशागमे। भित्त्वा सुरुङ्गां प्राविक्षत् स तद्राजसुतागृहम्॥५४॥ तामेकां सङ्गमितां दृष्ट्वोपेत्य जगाद सः। त्वत्कृतञ्च हतस्याहं कर्परस्य सखा घटः॥५५॥ अपनेतुमितस्त्वां च तत्स्नेहादहमागतः। तदेहि यावन्नानिष्टं किञ्चित्त कुरुते पिता॥५६॥ इत्युक्ते तेन सा हृष्टा राजपुत्री तथेति तत्। प्रतिपेदे स चैतस्य बन्धनानि न्यवारयत्॥५७॥ ततस्तया समं सद्यः समर्पितशरीरया। निर्गत्य च ययौ चौरः स्वनिकेतं सुरुङ्गया॥५८॥ प्रातश्च स्नातदुर्लक्ष्यसुरुङ्गेन निजां सुताम्। केनाप्यपहृतां बुद्ध्वा स राजा समचिन्तयत्॥५९॥ ध्रुवं तस्यास्ति पापस्य निगृहीतस्य बान्धवः। कश्चित् साहसिको येन हृतेव सा सुता मम॥६०॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 970, कुल 1079 में से · BharatKosha