भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 974, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 974

१२२ कथासरित्सागर तेन रक्षिषु धत्तूरमोहितेष्वेपु सोऽग्निसात्। निशि चक्रे घटो देहं कर्परस्याहृतेन्धनः ॥७७॥ गत तस्मिंस्ततः प्रातर्बुद्ध्वा राजा निवार्य तान्। विमूढांस्थापयामास रक्षिणोऽन्यानुवाच च ॥७८॥ रक्ष्याण्यस्थीन्यपीदानीं यस्तान्यादातुमभ्यति। स युष्माभिर्ग्रहीतव्यो भक्ष्य किञ्चिच्च नान्यतः ॥७९॥ इति राज्ञोदितास्ते च सावधाना दिवानिशम्। तत्रासन् रक्षिणस्तं च वृत्तान्तं बुबुधे घटः ॥८०॥ ततः स चण्डिकादत्तमन्त्रप्रभाववित्। मित्रं प्रव्राजकं किञ्चिच्चञ्चकाराश्वासदस्तनम् ॥८१॥ तत्र गत्वा समं तेन प्रव्राजा मन्त्रजापिना। रक्षिणो मोहयित्वा तान् कर्परास्थीनि सोऽग्रहीत् ॥८२॥ क्षिप्त्वा च तानि गङ्गायामत्यक्त्याय यथाकृतम्। राजपुत्र्या समं तस्थौ सुखं प्रव्राजकान्वितः ॥८३॥ राजाऽपि सोऽस्थिहरणं बुद्ध्वा तद्रक्षिमोहनम्। आ सुताहरणात् सर्वं मेने तद्योगिचेष्टितम् ॥८४॥ येनेदं योगिनाकारि तनयाहरणादि मे। ददामि तस्मै राज्यार्धमभिव्यक्तिं स याति चेत् ॥८५॥ इति राजा स्वनगरे दापयामास घोषणाम् । तां श्रुत्वा चैच्छदात्मानं घटो दर्शयितुं तदा ॥८६॥ मैवं कृथा न कार्योऽस्मिन् विश्वासश्छद्मघातिनि। राज्ञीत्यवार्यत तया राजपुत्र्या ततश्च सः ॥८७॥ मथोद्भवभयात्तत्र साकं प्रव्राजकेन सः। घटो देशान्तरं यायाद्राजपुत्र्या तया युतः ॥८८॥ मार्गे च राजपुत्री सा प्रव्राजं तं रहोज्ञब्रवीत्। एकन ध्वसितान्येन प्रस्थितास्म्यमुना पदात् ॥८९॥ तत्तोरः स मृतो नायं घटो मे त्वं बहुप्रियः। इत्युक्त्वा तं सङ्गम्य सा विषेणावधीद् घटम् ॥९०॥ ततस्तेन समं यान्ती पापा प्रव्राजकेन सा। धनदत्ताभिधानेन सञ्जग्मे वणिजा पथि ॥९१॥ कोऽप्य कस्मात्सी त्वं प्रेयान् ममेत्युक्त्वा ययौ समम्। वणिजा तेन ससुप्तं सा प्रव्राजं विहाय तम् ॥९२॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 974, कुल 1079 में से · BharatKosha