कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 978, कुल 1079 में से
संदर्भ में पढ़ेंप्रव्राजकश्च स प्रातं प्रबुद्धः समचिन्तयत्। न स्नेहोऽस्ति न दाक्षिण्यं स्त्रीष्वहो चापलावृत ॥९३॥ यद्विश्वास्यापि मां पापा हृतार्था च पलायिता। सेष लाभोऽद्य यन्न हतोऽस्मि घटवत्तया ॥९४॥ इत्यालोच्य निजं देशं ययौ प्रव्राजकोऽप्य सः। वणिजा सह तद्देशं प्राप्ता राजसुतापि सा ॥९५॥ प्रवेशयामि सहसा बन्धकीं किमिमां गृहम्। इति स्ववशप्राप्ताञ्च धनदेवो विचिन्तयन् ॥९६॥ वणिकस्तत्र किलिकस्या वृद्धाया वेश्म योषितः। प्रविवेश तया साकं राजपुत्र्या दिनात्यये ॥९७॥ तत्र नक्तं स वृद्धां तां पप्रच्छापरिजावतीम्। धनदव वणिग्गेहवार्तामम्वह वेत्सि किम् ॥९८॥ तच्छ्रुत्वा साऽब्रवीद् वृद्धा का वार्ता यत्र तत्र सा। पुंसा नवन्वेनैव तद्भार्या रमते सदा ॥९९॥ चर्मपटा गवाक्षेण रज्ज्वा तम हि सम्व्यसे। नक्तं घिशति यस्तस्यां स एवान्तः प्रवेश्यत ॥१००॥ निष्काश्यते सर्वैवात्र पश्चिमार्या पुनर्निशि। पानमत्ता च सा नैव निभारुयति किञ्चन ॥१०१॥ एषा च वृत्तस्थितिः ख्यातिं नगरेऽत्राखिले गता। बहुकालो गतोऽद्यापि न चायाति स तत्पतिः ॥१०२॥ एतद्वृद्धावचः श्रुत्वा धनदेवस्तदैव सः। युक्त्या निर्गत्य तत्रागात् सान्तःपुंश्चः ससंशयः ॥१०३॥ दृष्ट्वा स तत्र वासीभिः पेटो रज्जुववर्मिताम्। विवेश स ततस्ताभिरुत्क्षिप्यान्तरनीयत ॥१०४॥ प्रविष्टः स तयाऽनिलक्ष्य शय्यां निन्ये मदान्धया। अविज्ञातः स्वगहिन्या हठात् क्षीबत्वमूढया ॥१०५॥ रिरंसा तस्य यावच्च नास्ति तद्घापदर्शनात्। तावत्तां मददोषेण निद्रां तद्गृहिणी ययौ ॥१०६॥ निशान्ते च स दासीभिः सत्वरं रज्जुघटया। गवाक्षेण बहिः क्षिप्तः खिन्नो वणिगचिन्तयत् ॥१०७॥