कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 980, कुल 1079 में से
संदर्भ में पढ़ें१२६ कथासरित्सागर अलं मे गृहमोहेन गृहे नार्यो निबन्धनम्। तासामेवेदृशी वार्त्ता तस्माच्छ्रेयो वनं परम् ॥१०८॥ इति निश्चित्य सन्त्यज्य स तां राजसुतामपि। धनदत्तः प्रवृत्तः गन्तुं दूरं वनान्तरम् ॥१०९॥ गच्छतस्तस्य मार्गे च मिलितो मित्रतामगात्। ब्राह्मणो रुद्रसोमाख्यः प्रवासादागतश्चिरात् ॥११०॥ स तेनोक्तः स्ववृत्तान्तं स्वमार्गस्थितो द्विजः। तेनैव वणिजा साकं सायं स्वग्राममासदत् ॥१११॥ तत्र स्वभवनोपान्ते गोपं दृष्ट्वा नदीतटे। गायन्तमिव गायन्तं नम्रया पृच्छति स्म सः ॥११२॥ गोप तं तरुणी काचित् कस्मिंस्त्वय्यनुरागिणी। येनैवं गायसि मदान्मन्यमानस्तृणं जगत् ॥११३॥ तच्छ्रुत्वा सोऽहसद् गोपो गोप्यं वस्तु कियन्मया। चिरविप्रोषितस्याहं रुद्रसोमद्विजन्मनः ॥११४॥ ग्रामाधिपस्य तरुणीमहं भार्यां सदा भजे। प्रवेशयति सद्दासी समीपं तद्गृहेऽत्र माम् ॥११५॥ एतद्गोपालतः श्रुत्वा मन्युमन्तर्निगृह्य च। तत्त्वं जिज्ञासमानस्तं रुद्रसोमो जगाद सः ॥११६॥ यद्येवमतिथिस्तेऽहं स्ववेषं देह्यमुं मम। यावत् त्वमिव तत्राद्य याम्यहं कौतुकं हि मे ॥११७॥ एवं कुरु गृहाण त्वं मदीयं कास्रकम्बलम्। लगुडं पास्व धवह तद्दासी यावदेष्यति ॥११८॥ मद्बुद्ध्या च तयात्र त्वं वन्दारूनाम्यट। नक्तं तत्र व्रजाहं च विधास्यामि निशामिमाम् ॥११९॥ एवमुक्तवतस्तस्माद् गोपात्तल्लगुडकम्बलौ। गृहीत्वा रुद्रसोमोऽत्र तद्रूपेण स तस्थिवान् ॥१२०॥ गोपश्च वणिजा साकं धनदत्तेन तेन सः। दूरे तत्र मनाक् तस्थौ शशौ सा जाययो ततः ॥१२१॥ सा तं तमसि तूष्णीमाहूय स्त्रीवदवगुण्ठितम्। एहीत्युक्त्वा तदा रुद्रसोमं गोपाधियानयत् ॥१२२॥