कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 99, कुल 1079 में से
संदर्भ में पढ़ें४८ कथासरित्सागर षट्षष्टस्तरङ्गः राज्ञो विक्रमादित्यस्य मदनमालावेश्यायाश्च कथा गोमुखीयकथातुष्टं दृष्ट्वा तत्स्पर्धया किल। नरवाहनदत्तं तं मरुभूतिरथाब्रवीत् ॥१॥ प्रायेण चपला कामं स्त्रियो नैकान्ततः पुनः। वेश्या अपि च दृश्यन्ते सत्त्वाढ्या किमुतापराः ॥२॥ तथा च देव विख्यातामिमामत्र कथां शृणु। विक्रमादित्य इत्यासीद्राजा पाटलिपुत्रकः ॥३॥ तस्याभूतामभिप्रेते मित्रे हयपतिर्नृपः। राजा गजपतिश्चोभौ बह्वश्वगजसाधनौ ॥४॥ शत्रुर्नृपतिर्भूयिषादातस्तस्य चाभवत्। मानिनो नरसिंहस्य प्रतिष्ठानेश्वरो बली ॥५॥ तं रिपुं प्रति सामर्थ्यं स मित्रबलर्गवितः। चकार विक्रमादित्यः प्रतिज्ञां रभसादिमाम् ॥६॥ तया मया विजेतव्यो राजा नरपतिर्यथा। स बन्दिमागधैर्द्वारि सेवको मे निवेद्यते ॥७॥ एवं कृतप्रतिज्ञस्ते मित्रे हयगजाधिपौ। समानीय समं ताभ्यां हस्त्यश्वक्षोभितक्षितिः ॥८॥ अभियास्तुं नरपतिं नरसिंहं प्रसह्य तम्। स ययौ विक्रमादित्यो राजास्तिरुबलान्वितः ॥९॥ प्राप्ते तस्मिन्प्रतिष्ठाननिकटं सोऽप्यवेत्य तत्। नरसिंहो नरपतिः संनद्धाग्रेस्र्यो निर्ययौ ॥१०॥ ततस्तयोरभूद्युद्धं राज्ञोर्जनितविस्मयम्। गजाश्वनं समं यत्र युध्यन्त स्म पदातयः ॥११॥ क्रमाच्च नरसिंहस्य कोटिसंख्यपदातितिभिः। भग्नं तद्विक्रमादित्यबलं नरपतेर्बलैः ॥१२॥ मग्नश्च विक्रमादित्यः पुरं पाटलिपुत्रकम्। ययौ पलाय्य तन्मित्रे स्वं स्वं देशं च जग्मतुः ॥१३॥ नरसिंहो नरपतिर्जितशत्रुनिजं पुरम्। प्रविवेश प्रतिष्ठानं बन्दिभिः स्तुतविक्रमः ॥१४॥