कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 24, कुल 114 में से
संदर्भ में पढ़ें१८ कात्यायनश्रौतसूत्रम् । 'मनूक्त व्रात्यवैश्यजातसुधन्वपर्याये रथकारे गृह्यमाणे तेषां वैयर्थ्यमेव स्यात् । न च तदिष्यते । तस्माद्याज्ञवल्क्योक्तमेव श्रुतम् , श्रुतिसम्मतत्वादिति ॥११॥ ( स्थपतिनिषादस्य गावेधुकेष्टावधिकारः ) निषादस्थपतिर्गावेधुकेऽधिकृतः ॥ १ । १ । १२ ॥ निषादस्थपतिर्गावेधुके चरावधिकृतोऽधिकारी भवति । एवं हि श्रूयते- “ यस्य रुद्रः प्रजाः शमयेत्स वास्तुमध्ये रौद्रं चरुं निर्वपेत् ” इति, एतामिष्टिं प्रक्रम्य श्रुतम् , “ एतया निषादस्थपतिं याजयेत् ” इति; निषादस्थपतिर्यजे- तेत्यर्थः । तत्रायं सन्देहः, किमयं षष्ठीसमासः, निषादानां स्थपतिर्निषादस्थपति- रिति, निषादश्चासौ स्थपतिश्च निषादस्थपतिरिति कर्मधारयो वा । तत्र यदि षष्ठीसमासस्तदा यो द्विजातिरेव विद्वान् निषादानामाधिपत्यं करोति, तस्यात्रा- धिकारः, यदि च कर्मधारयस्तदा निषाद एव यः स्थपतिस्तस्यात्राधिकार इति । तत्र त्रैवर्णिकस्यैव समर्थत्वाद्द्विद्त्वाद्वाग्निमत्वाच्चात्राधिकारो युज्यते, अन्य- जातीयस्य निषादस्यावैधत्वेनानग्नित्वेन चासमर्थत्वात् । तस्मात् षष्ठीसमास एवायमिति पूर्वः पक्षः । तत्रानुपयोगेऽपि “ आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्च” इति वचनविहिते दाहे, उपयोग- सम्भवात् । न ह्ययं दाहः कर्मोपयुक्ताहिताग्निप्रतिपत्त्यर्थः, येन कर्माभावेनाभावः शङ्क्येत । तथात्वे, आहिताग्निपदेनाधानस्यैवोपस्थितेस्तदङ्गत्वस्यैवापत्तौ क्रत्वङ्गत्वानापत्तेः, न चेष्टाप- त्तिः। तथात्वे प्रतिपत्तिं विना आधानफलाहवनीयादेरनिष्पत्त्यापत्तेः । अतः फ- लश्रवणादर्थकर्मैवेदमिति युक्तस्तत्राहवनीयादेरुपयोगः । पवमानेष्ट्यङ्गभूतपात्रसत्त्वाच्च यज्ञ- पात्रसमुच्चयेऽपि न क्षतिः । अत एव पवमानेष्ट्युत्तरं प्राक् ऋतुभ्यो मरणे अग्निभिः पात्रैश्च दाहः, पवमानेष्टिभ्यः पूर्वं मरणे तु, उक्तवचनबलादग्निभिरेव दाह इति । तन्त्ररत्ने तु- यद्यपि च विद्याभावादस्योत्तरक्रतुष्वनधिकारः स्यात्तथाप्याधानमात्रमरणिममथितलौकिकाग्नि- गुणकं कल्प्यस्वर्गफलं सधर्मकमनुष्ठेयम् । एवं चाहवनीयादेरनुपयोगादभावेन तदुद्देशेन विहितानां ' नक्तं गार्हपत्यमादधाति ' इत्यादीनां धर्माणां लोपेऽपि, एकस्मिन्नेव कुण्डे स्थण्डिले वा त्रिषु वा तेष्वग्न्याधानमितराङ्गयुक्तं कार्यमिति । १ व्रात्यात्तु जायते वैश्यात्सुधन्वाचार्य एव च ।