कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 27, कुल 114 में से
संदर्भ में पढ़ेंअत्रैतद्विचाय॑ते—किं स्थपतीष्टिरवकीर्णी पशुश्चैतदुभयमाधानसंस्कृतेष्वा- हवनीयादिषु भवति, उत लौकिक इति । तत्र प्रकृतित आहवनीयादिषु प्राप्तेरा- हवनीयादीनां चाधाननिष्पाद्यत्वात्स्थपतेरवकीर्णिनश्चाधानविध्यभावेऽपीष्टिपशू आधानं प्रयोजयतः । अत एतदर्थमेवाधानेनाहवनीयादीनुत्पाद्य तेषु तदुभयं कर्तव्यमिति प्राप्त आह— लौकिके ॥ १ । १ । १४ ॥ एतौ स्थपतीष्ट्यवकीर्णिपशू लौकिकेऽग्नौ भवतः । कुतः ? नहीमाविष्टि- पशू आधानं प्रयोजयतः; आभ्यां हि तदेव गृह्यते यद्दर्शपूर्णमासाङ्गं भवति । 'मग्निः सिञ्चतु प्रजया च धनेन चेत्येतदेव प्रायश्चित्तम् ॥ इति (पारस्करगृह्यसूत्रे तृतीयकाण्डे द्वादशी कण्डिका) रेणुकारिकास्वपि—अवकीर्णिप्रायश्चित्तमिदानीमभिधीयते । ब्रह्मचारी स्त्रियं गच्छेदवकीर्ण्युच्यते बुधैः ।। पशुना गर्दभेनाधिक्रियते नैर्ऋतेनसः । शाखापशुविधा- नेन पशुः कार्यश्चतुष्पथे । न च श्राद्धार्थ आरब्धः पशुः प्रोक्तः प्रसङ्गतः ।। आह नैमि- त्तिकं वक्तुमिति षष्ठचन्तरं मुनिः । पाकयज्ञो हविर्यज्ञः पशोरेष द्विधा मतः ।। इहोच्यते पाकयज्ञः पाकयज्ञेन सूत्रणात् । अवकीर्णीन इत्यस्मिन् युक्तोऽधिकरणे यतः ।। स्वयं कर्तृक आद्यः स्यात् परोऽर्त्व्यादिकर्तृकः । लौकिके स्यादिदं कर्म काले चन्द्रमसः क्षये ।। पुरोडाशविधानं स्यान्नशाखात्पशुवच्चरुः । संस्कारानुष्ठितिस्तस्य सहाय्येनैव चोदिता ।। भूमौ पशुः पुरोडाशः श्रप्यते प्रोक्षणादिषु । आदिशेन्निर्कृतिं तत्र निर्ऋत्यै च निमन्त्रितः ।। अप्सु होमोऽवदानानां पुरोडाशेन तैः सह । वपा स्विष्टकृतेस्तद्वत्तेषामग्न्युपवादतः ।। आघारादि भवेद्वह्लावाज्यसम्बन्धि कर्म च । अवकीर्णाघ(कीर्णित्व)निःकृत्यै पाकयज्ञ- विधानतः ।। पशुना गर्दभेनाहं यक्ष्य इत्थं गुरुं वदेत् । स्थापयेल्लौकिकं वह्निं भूमौ संस्कार- पूर्वकम् ।। तदुत्तरेणोदपात्रं तथा भूशुद्धिपूर्वकम् । होमार्थमवदानानां स्वा(चा)ख्यानाद्य- पवर्गतः ।। परिष्कृतिर्द्वयोरेका साधनत्वात्तथोभयोः। स्नापयित्वोपकरणे पशुसंस्कारकर्मवत् ।। तच्छाखापशुवत्सर्वं वचनस्यातिदेशतः ।। तदन्ते परिसन्दधत्ते त्वचं (छर्वि) तामेव त (?) च्छुचिः । ऊर्ध्वपुच्छं ब्रुवन्त्यन्ये, चरेद्भिक्षां हि वत्सरम् ।। स्वकर्मजाह्यत्र तिष्ठेत्स्वपापं परि- कीर्तयेत् । 'निरुक्तं वा एन एव कनीयो भवति' श्रुतेः ।। संवत्सरान्ते पूतः सन्पुनस्तद्व्र- तमाचरेत् । नैमित्तिकान्तरं तस्यावकीर्णिन इहोच्यते ।। स्थापयित्वोद्धरेद्वह्निं लौकिकं न चतुष्पथे । वरणादि यथोक्तं स्यादाज्येनैवात्र हूयते । क्रमेण जुहुयादेता आघाराद्याश्चतु- र्दश ।। तेनाज्येनैव जुहुयादाहुती प्रतिमन्त्रतः। आद्या कामावकीर्णोऽस्मि कामभिर्दग्ध इत्यथ ।।