कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 34, कुल 114 में से
संदर्भ में पढ़ें२८ | कात्यायनश्रौतसूत्रम् । ननु सूत्रकारेणाङ्गत्वे प्रमाणद्वयमेव कथमुक्तम् ? जैमिनिना तु *श्रुति- लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यासंज्ञानि षट् प्रमाणान्युक्तानि सन्ति। नैष- दोषः । प्रमाणचतुष्टयस्यसोदाहरणस्याग्रे ✕वक्ष्यमाणात् । तत्र स्वार्थाभिधाने +निरपेक्षं वचनं श्रुतिः । सा त्रिविधा-[१] विधात्री, [२] अभिधात्री, [३] विनियोक्त्री च । तत्र विनियोक्त्री लिङाद्यात्मिका । अभिधात्री व्रीह्यादिश्रुतिः । विनि- योक्त्री त्रिधा-[१] एकाभिधानरूपा, [२] एकपदरूपा, [३] विभक्तिरूपा च । यस्य च श्रवणादेव सम्बन्धः प्रतीयते सा विनियोगश्रुतिः । तत्र, यत्राने- कार्थाभिधानमेकेन शब्देन युगपद्भवति विभक्त्यैव लिङ्गसङ्ख्याकारकाणां तत्र तेषामन्वितानामेवाभिधानं तदेकाभिधानम् । यथा पशुनेति पशुः प्रतीयते तयैक- त्वं च । अतः सङ्ख्यादेरेकशब्दोपादानलक्षणया श्रुत्या कारकसम्वन्धः । प्रति- पदिकार्थस्य तु पदश्रुत्या । यजेतेत्यत्र यागस्य प्रकृत्यर्थस्यैकपदेनोपात्ततया याग- स्य प्रकृत्यर्थस्यैकपदेनोपात्ततया स्वर्गादिकं प्रति करणत्वम् , विभक्तिस्तु सम्ब- न्धमेव साध्यत्वं वा प्रतिपादयन्ती विनियोगकरणम् । तत्र द्वितीया साध्यत्वं प्रतिपादयति, तृतीयाद्यस्तु साधनत्वम् । तत्र " व्रीहीनवहन्ति " इति द्वितीयां साध्यत्वेन व्रीहीनभिधानावघातस्य तेषु विनियोगकारणं भवति । सर्ववस्तु ·| सामर्थ्यं लिङ्गम् । तद्यथा- " श्रुवेणावद्यति " " स्वधितिना- वद्यति " " हस्तेनावद्यति " " कोष्ठेनावद्यति " इति अवदानसाधनत्वेन श्रु- तानां लिङ्गेन वस्तुसामर्थ्यात्मकेन विशेषविनियोगो भवति । तदुक्तम्- सामर्थ्यात्स्वधितिर्मांसे द्रवेषु स्यात्स्रुवस्तथा । हस्तकेन पुरोडाशमवदातुं प्रकल्प्यते ॥ मन्त्राणां च लिङ्गेन पदार्थस्मारकत्वे विनियोगः । वाक्यं तु पदसङ्घातात्मकं प्रागुक्तम् ।
- तृतीयाध्याये । ✕ तत्तत्स्थलेषु । +श्रुतिर्नामाङ्गत्वघटकीभूतोद्देश्यताकृतिकार- कत्वयोरन्यतस्य प्राधान्येन वाचकः शब्दः । ·| लिङ्गं नामाङ्गत्वघटकीभूतपरोद्देश्यताकृ- तिकारकत्ववाचकपदकल्पनानुकूला क्लृप्त पदपदार्थनिष्ठा योग्यता । ऽ समभिव्याहारो वाक्यम् ।