भारतकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 72, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 72

६६ कात्यायनश्रौतसूत्रम् । यतो वैकृतस्य प्रधानस्य अनारभ्यविधिं प्रत्यपेक्षा नास्ति, चोदनासारूप्याभावात् निराश्रयस्य पर्णत्वादेर्विधातुमशक्यत्वाच्च । अतो वैकृतं प्रधानं धर्मापेक्षं सचोदना सारूप्यात्प्राकृतानेव धर्मान्प्रथमं गृह्णाति तदन्तर्भूतं पर्णत्वादिकं चेति सिद्धम् ॥२९॥ दर्शनाच्च ॥१।३।३०॥ विकृतौ प्रयाजादीनां प्राकृतानां धर्माणां दर्शनादप्येवं ज्ञायते यदनारभ्य- वादा विकृतौ चोदकात्पूर्वं न निविशन्त इति । यदि पूर्वं निविशेयुस्तदा वैकृतं प्रधानमारभ्याविधिनेव पूरितं सन्निराकाङ्क्षत्वात्प्राकृतान्यङ्गानि न गृह्णीयात्, तदा च विकृतौ प्रयाजादीनां प्राकृतानां दर्शनं न स्यात्, अस्ति च, तथा हाश्व- मेधे “अथ सावित्रिमिष्टिं निर्वपति” (१३-४-२-६) इति प्रकृत्य तस्यै प्रयाजेषु तापमानेषु” (८) इति । अत्र गाथागानविधिपरे वाक्ये प्राकृतान्प्रया- जान्दर्शयति । पित्र्यां च “स तत एव प्राकस्तम्बयजुर्हरति” (२-६-१-१२) इत्यत्र स यज्ञोपवीती भूत्वाऽऽज्यानि गृह्णाति (१२) इति यज्ञोपवीतित्वविधिपरे वाक्ये बहून्प्राकृतानपदार्थान्दर्शयति, ते च प्राकृतधर्मसापेक्षत्वे ऽएव प्रयुज्यन्ते नान्यथा, तस्मादनारभ्याधीताः प्रतिपत्पक्षाः सन्ति । ते यदि सर्वार्थाः, तर्हि विकृतावपि ते भवन्ति, यदि प्रकृतावेवानारभ्यविधेर्निवेशः तदा तेषां प्रतिपत्प- क्षाणां विकृतावप्रयोगः पुरुषार्थत्वेन विकृतौ प्राप्त्यभावादिति ॥३०॥ वैकङ्कतानि पात्राणि ॥१।३।३१॥ यज्ञपत्राणि सर्वाणि वैकङ्कतानि विकङ्कतवृक्षकाष्ठघटितानि भवन्ति, “ततो विकङ्कतः समभवत्तस्मादेष यज्ञियो यज्ञपात्रीयो वृक्षः” (२-२-४-१०) इति श्रवणात्सामान्यसूत्रमेततत् ॥३१॥ अस्यापवादमाह— खादिरः स्रुवः ॥१।३।३२॥ स्रुवः खादिरः स्यात् ॥३२॥ स्फ्यश्च ॥१।३।३३॥ चकारात्स्फ्यो वज्रोऽपि खादिरः स्यात् । “खादिरः स्फ्यः” (३-६- २-१२) इतिश्रुतेः ॥३३॥

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक) · पृष्ठ 72, कुल 114 में से · BharatKosha