कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 245, कुल 361 में से
संदर्भ में पढ़ेंअथर्ववेदीय-कौशिकसूत्रम् । २१३ तृतीयाम् ॥ ४ ॥ यद्दो अग्निरिति सायवनांस्तण्डुलान् ॥५॥ सं बर्हिरिति सदर्भांस्तण्डुलान् पर्युक्ष्य ॥६॥ अतो यज्ञोपवीती पित्र्युपवीती दर्व्योद्धरति ॥७॥ द्यौर्दर्वीरक्षिता- परिमितानुपदस्ता सा यथा द्यौर्दर्वीरक्षितापरिमितानुप- दस्तैवा प्रततामहस्येयं दर्वीरक्षितापरिमितानुपदस्ता॥८॥ अन्तरिक्षं दर्वीरक्षितापरिमितानुपदस्ता सा यथान्तरिक्षं दर्वीरक्षितापरिमितानुपदस्तैवा ततामहस्येयं दर्वीरक्षि- तापरिमितानुपदस्ता ॥६॥ पृथिवी दर्वीरक्षितापरिमिता- नुपदस्ता सा यथा पृथिवी दर्वीरक्षितापरिमितानु- पदस्तैवा ततस्येयं दर्वीरक्षितापरिमितानुपदस्तेति ॥१०॥ उद्धृत्याज्येन संनीय त्रीन्पिण्डान् संहतान्निदधात्येतत्ते प्रततामहेति ॥११॥ दक्षिणतः पत्नीभ्य इदं वः पत्न्य इति ॥१२॥ इदमाशंसूनामिदमाशंसमानानां स्त्रीणां पुंसां प्रकीर्णावशीर्णानां येषां वयं दातारो ये चास्माकमुप- जीवन्ति । तेभ्यः सर्वेभ्यः सपत्नीकेभ्यः स्वधावदक्षय्य- मस्त्विति त्रिः प्रसव्यं तण्डुलैः परिकिरति ॥१३॥ पिञ्जू- लीराञ्जनं सर्पिषि पर्यस्याङ्ग्ध्वं पितर इति न्यस्यति ॥१४॥ देवे ॥ ४ ॥ “यद्दो अग्निः” से जौ के साथ चावलों “एवं संबर्हिः ” से सदर्भ तण्डुलों को पर्युक्षण करके अर्थात् “संबर्हिरुक्तं०” से सदर्भ चावलों की आहुति करे, तब पर्युक्षण करे ॥ ६ ॥ अतएव यज्ञोपवीती पित्र्युपवीती दर्वि से उद्धरण करे ॥ ७ ॥ “द्यौर्दर्वीरक्षिता०” इत्यादि मंत्रों से निकाल कर आज्य में मिलाकर 'तीन' पिण्डों को एक साथ “एतत्ते प्रततामह०” इत्यादि से ॥ ८ ॥ ६ ॥ १० ॥ ११ ॥ दक्षिण से पत्नियों के लिये “इदं वः पत्न्यः” इत्यादि ॥ १२ ॥ “इदमाशं०” इत्यादि तीन बार वाम होकर चावलों को बिखेर देवें ॥ १३ ॥ पिञ्जुली, आञ्जन, को घी में मिलाकर “अङ्ग्ध्वं पितरो०” से पिण्डों पर घरे ॥१४॥