भारतकोश
कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

Kausika Grihyasutram of Atharvaveda with Hindi Translation

महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा

DevanagariHindipublished361 पृष्ठ

पृष्ठ 297, कुल 361 में से

संदर्भ में पढ़ें
पृष्ठ 297

ॐ अथ ॐ पण्डित हारिलकेशवयोः संक्षिप्तटीका प्रकाश्यते । अथर्ववेदस्य संहिताविधेर्विवरणं क्रियते । तत्र अथर्ववेदस्य नव भेदा भवन्ति । तत्र चतसृषु शाखासु शौनकादिषु कौशिकोऽयं संहिताविधिः । स च गोपथब्राह्म- णादर्थवादादि परित्यज्य विधिमात्रं कल्पयित्वा विधेः कृतसूत्रयथोपयोगं टीका क्रियते संहिताविधेः । कण्डिका ॥ १ ॥ सू० १। —अथशब्द आनन्तर्यार्थः । संहिताप्ययनानन्तरं विधेरधिकारः । संहिताविधिं वक्ष्यामः । शान्तिकपौष्टिकाभिचारिकाद्भुतादीनि कर्माणि संहिताविधौ उक्तानि । त्रिविधानि कर्माणि विधिकर्माणि अविधिकर्माणि उच्छ्रयकर्माणि त्रिप्रमाणको विधिः प्रत्यक्षं अनुमानं शब्दं चेति । उपवर्षाचार्येणोक्तम् । मीमांसायां स्मृतिपादे कल्पसूत्राधिकरणे नक्षत्रकल्पो वितानकल्पस्तृतीयः संहितालल्पश्चतुर्थो अङ्गिरसां कल्पः शान्तिकल्पस्तु पञ्चमः । एते कल्पा वेदतुल्या हि इति भगवानुपवर्षा- चार्येण प्रतिपादितं अन्ये कल्पाः स्मृतितुल्याः । प्रागुदग्वा कर्मसमाप्तिर्दैवकर्मंसु दक्षिणा प्रत्यग्वा समाप्तिः पितृकर्मंसु केचित्प्रागुदगन्तराले समाप्तिः । —सू० १७ । यथा परिव्वाप्ने पुरं वयमिति त्रिः पर्य्यग्नि करोति । कौ० सू० २।१० । —सू० २६ । अग्निं पृष्ठतो नावसेत । —सू०२९।३० । सांख्यायनीये ब्राह्मणे उक्तं द्वे पौर्णमास्यौ द्वे अमावास्ये इति पौर्णमास्याः प्रतिपद्विति अमावास्यायां प्रतिपद्विति पूर्वा उपोष्या उत्तरा याज्या । कौ० । आ० ३।१ । —सू० ३१ । तिथिभेदे मुख्यपौर्णमासोभेदे या पूर्वा सा उपोष्या । उपवासं करोति । कण्डिका ॥ २ ॥ सायं प्रातर्होमवैश्वदेवपिण्डपितृयज्ञादि उद्धृतेऽग्नौ कार्याणि । सू०-१७ । ( केश- वोऽन्यदपि पठति ) ऊर्णास्रदं —सू० १८ । भूपत इति ब्रह्मवरणं तथा च गोभिल- ब्राह्मणम्—प्रत्यक्षं वा दर्भमयं वा आसनं वा उदककमण्डलुं वा ब्रह्मस्थापने वा कुर्यात् ।