कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 319, कुल 361 में से
संदर्भ में पढ़ेंसंक्षिप्तटीकासङ्ग्रहः । २३
आदधाति । रक्षोग्रहभैषज्यम् । सू० ५ । — अथ सर्वभैषज्यमुच्यते । वैश्वानरो न ऊतये ऋतावानं वैश्वानरमिति सूक्ताभ्यां उदपात्रमभिमन्त्र्य पाययति । सक्तुमन्थं पाययति । हरिद्रां सर्पिषि पाययति । अप्सु घृतमुदकमभिमन्त्र्य पाययति । सू० ६।— अपवादे भैषज्यमुच्यते, बहुभाषणमधर्मे च प्रवर्तते तस्यापवादः । अभ्यातानान्तं कृत्वा अस्याद् द्यौरिति पूर्वेण स्वयंपतिते गोशृङ्गे उदकं कृत्वाभिमन्त्र्याचामयति अभ्युक्षति च । सू० ७ ।—अथ उदरे वा हृदये वाङ्गे वा सर्वाङ्गे वा शूले उत्पन्ने भैषज्यमुच्यते । या ते रुद्र इति सूक्तेन शूलमणिं संपात्याभिमन्त्र्य बध्नाति । शूलं लोहमणिः पाषाणो वा दारिलरुद्रमतम् । यां ते रुद्र इति व्याधितमभिमन्त्रयते रुद्र- भाष्यमतम् । शूलभैषज्यं समाप्तम् । सू० ८।—रक्षोग्रहे भैषज्यमुच्यते । उत्सूर्यमिति चित्याद्योषधीभिः सहोदकघटमभिमन्त्र्य व्याधितमवसिञ्चति । शम्युदकेन सह अव- सिञ्चति । शमीबिम्बमुदकसहितं अवसिञ्चति शीर्षपर्णीमुदकं दत्त्वा अवसिञ्चति । सू० ९ ।—दुष्टगण्डविशिष्टभैषज्यमुच्यते । तैलमभिमन्त्र्य व्याधितं गण्डं संमार्ष्टि । सू० १० । — स्थूणायां निकषंति घृष्यति व्रणं रुधिरकृते दुष्टव्रणे दुष्टगण्डव्याधि- भैषज्यं समाप्तम् । सू० ११ ।—अक्षितव्रणभैषज्यमुच्यते । गोमूत्रमभिमन्त्र्य तेन व्रणं मर्दयति । यस्य व्रणस्य मुखं नास्ति । अक्षतदुष्टव्रणे भैषज्यम् । सू० १४ ।— तृणरजस्य फेनमभिमन्त्र्य व्रणं प्रलिम्पति । यस्य गण्डदुष्टस्य रुधिरं न च वहति तस्य समाप्तमक्षतव्रणभैषज्यम् । सू० १६।—गण्डमालाभैषज्यमुच्यते । शंखं घृष्ट्वाभि- मन्त्र्य गण्डमालां प्रलिम्पति । श्वानलालां कुकुंटलालां प्रलिम्पति । जलौकामभिमन्त्र्य गण्डमालायां संसंजयति । सू० १७ ।—सैन्धवलवणं चूर्णयित्वाभिमन्त्र्य गण्डमा- लाया उपरि प्रकिरति । ततस्तस्योपरि निष्ठीवति मुखलालां प्रक्षिपति । सू० १८।— अथ पक्षिणोऽभिघाते भैषज्यमुच्यते । श्वानपदस्थानमृत्तिकामभिमन्त्र्य पक्षाहतं देशं प्रलिम्पति । पक्षहतभैषज्यम् । सू० १९ ।—शुनो मक्षिकामभिमन्त्र्याग्नौ प्रक्षिप्य ततो धूपयति व्याधिप्रदेशम् । काकगृध्रकपोतश्येनादिपक्षिणाभिघाते भैषज्यं समाप्तं । सू० २० ।—अथ गण्डभैषज्यमुच्यते । ग्लौरितः प्रपतिष्यतीति अर्धर्चेन गोमूत्र- मभिमन्त्र्य गण्डं मर्दयति । प्रक्षालयति । दन्तमलं प्रलिम्पति । तृणरजःफेनं ॰॰॰ प्रलि- म्पति । समाप्तं गण्डभैषज्यं गण्डस्फोटिकां इत्यर्थः । सू० २१ ।—गर्दभाद्युहं गण्ड- भैषज्यमुच्यते ॰॰॰ । शान्त्युदकमभिमन्त्र्य क्षतं प्रोक्षति । आज्यं जुहोति । ततो मनसा संकल्पयति सम्पातान्ददाति । समाप्तं गर्दभदशजातिपिकादिक्षतगण्डभैषज्यम् । सू० । २२ ।—पापगृहीते जलोदरे च भैषज्यमुच्यते । सू० २६ ।—विषे उपविषे स्थावरजङ्गमे च भैषज्यमुच्यते । मक्षिकायां च भैषज्यम् । सू० २७ ।—काशो श्लेष्म- पतने च भैषज्यमुच्यते । भोजनमभिमन्त्र्य ददाति । सक्तुमभिमन्त्र्य भक्षयति । उप- स्थानमादित्यस्य । उदकमभिमन्त्र्याचामयति । सू० २८ ।—केशवृद्धिकरणे भैषज्य-