कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 326, कुल 361 में से
संदर्भ में पढ़ें३० अथर्ववेदीय-कौशिकसूत्रस्य- देशात् । परिषज्जयकर्म सभाजयकर्म समाप्तं । सू०१८ । —विवादे जयकर्माण्युच्यन्ते । पाठामूलं मुखे प्रक्षिप्य तदनन्तरमपराजितादेशादागच्छति । सू० १९ । —पाठामूलं मुखे प्रक्षिप्यान्वाह । सू० २० । —पाठामूलं बध्नाति । सू० २१ । पाठापुष्पमाला- मभिमन्त्र्य शिरसि धारयति । पाठापालाशी सप्तपालाशी सप्तपर्णी मालामभिमन्त्र्य धारयति । सू० २२ । —वृष्टिनिवारणं भक्षभोजने कर्म उच्यते । भक्तमभिमन्त्र्य भक्तं शाकादि । ततो भुञ्जीत । वृष्टिनिवारणं समाप्तं । सू० २३ । —ब्रह्मजज्ञानमिति सूक्तेन प्रथमेन काण्डादिना सूक्तेन वेदं वा अनुवाकं वा सूक्तं वा कल्पं वा ब्राह्मणं वा अध्ययनं कर्तुमिच्छति तदा तदा सूक्तं जपित्वा ततोऽध्ययनं कुर्यात् । कलहशमनं समाप्तं । सू० २४ । —ब्र