कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 328, कुल 361 में से
संदर्भ में पढ़ेंबध्नाति ॥ “आ वृषायस्वे”ति सूक्तेन हरिणस्कन्धचर्ममंणिं कृत्वा कृष्णबालेन बध्नाति ॥ वीर्य्यकरणं उत्थापनं स्थूलकरणं च भवति रेतोनाशे च ॥ कण्डिका ॥ ४१ ॥ सू० १ । अथ वृष्टिकर्मविधिं वक्ष्यामः ॥ सू० २।३ । त्रयोदशेऽहनि पाकयाज्ञिकं तन्त्रं व्रतोपायनान्तं कृत्वा ततो “देवस्यत्वा सवितु”रित्यादि मरुद्भ्यो जुष्टं निर्व- पामि। “मरुद्भ्यस्त्वा जुष्टं प्रोक्षामी”ति अनेन यजुषा तावत् समानं यावदाज्यभा- गौ ततः क्षीरौदनं जुहोति ॥ “समुत्पतन्विति” सूक्तेन पञ्चभिर्ऋग्भिरेकामाहुतिं ततः पञ्चभिर्ऋग्भिर्द्वितीयां षड्भिर्ऋग्भिस्तृतीयामाहुतिं जुहोति । ततः पार्वणाद्युत्तर- तन्त्रं । पाकयाज्ञिकं तन्त्रमाज्यभागान्तं कृत्वा ततः “प्रभस्वेति” क्षीरौदनं एकामा हुतिं जुहोति । “न भ्रंस्ततापे”त्यृचा द्वितीयामाहुतिं । युक्ताभ्यां तृतीयामाहुतिं । पार्वणाद्युत्तरतन्त्रं बर्हिहोंमे “मरुतो गच्छतु हविः स्वाहे”ति । सर्वेषु वृष्टिकर्मसु कृष्णाया गोराज्यं कृष्णायाः गोः पयः कृष्णाव्रीहिशालयः वेतसः स्रुवः वैतसी समि- दिन्धनं च । सू० । ३ । ४ । —काशदिविधुवकवेतसामेकत्र कृत्वा***तत उदक- मध्ये पात्रं अधोमुखं निनयति । उदके विप्लावयति । सू० ६ । कुकुरशिरमभिमन्त्र्य उदके विप्लावयति । मेषशिरमभिमंत्र्य उदके प्रक्षिपति मानुषकेशजरद् उपा- नहौ वंशाग्रे प्रबध्य योधयेति जपन् । सू० ८ । अर्थोत्थापने विघ्नशमनविधि वक्ष्यामः ॥ अर्थकामोद्यमं यदा करोति तदा इदं करोति ।द्रव्य हस्त्यश्वरत्न हिरण्यधनधान्यादि एवं कामो यदोद्यमं वणिजादि करोति तदा इदं कर्म करोति ॥ यस्मिन्नारम्भा गृहादि न सिध्यन्ति तदा इदं कर्म ॥ सू० १० । —अथ द्यूतजयकर्म उच्यते ॥ सू० ११। उत्तराषाढ नक्षत्रे संमिनोति पूरयति । सू० १३। त्रयोदश्याद्य- स्तिस्रो दधिमधुनि वासयित्वाअक्षान् वा कपर्दकान् वा द्यूतक्रीडां कुर्यात् । सू० १४ । —अथार्थोत्थापनोद्यमकरविघ्नशमनकर्म उच्यते मरुतो यजते पाकयज्ञविधानेन यथा वरुणं मारुतं क्षीरौदनं मारुतश्रितमित्यादि भवति ॥ एवमाद्या ओषधीः संपात्य अभिन्युब्जनं । विप्लावयति । श्वशिर एडकशिरः केशजरदुपानहौ युद्धउदपात्रकर्म एतानि अभिवर्षणानि कर्माणि भवन्ति एकैकस्यसूक्तस्य । एके आचार्यामारुतस्थाने मन्त्रोक्त देवतायागं कुर्यात् यथा वरुणं । अथोषधि होमसमानं वर्षकर्मणां । उदकघटं सम्पात्याभिमंत्र्य तत आप्लावयति । अवसिञ्चति । विघ्नशमनकामः । समाप्तानि अभिवर्षणावसेचनानि कर्माणि । सू० १५ । — वैश्वानरो रश्मि”रिति सूक्तेन “उदे- हि वाजिनिति विंशत्या ऋग्भिश्च उद्यन्तमादित्यं स्नानं कृत्वोपतिष्ठते अर्थमुत्थापन- कामः । सू० १७ । —वस्त्रं ददाति । विद्रावणादिविषये शमनकामः । समाप्तानि विघ्नशमनकर्माणि । सू० १८ । —अथ गोवत्सद्वेषे विरोधसांमनस्यमुच्यते ।