भारतकोश
कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

Kausika Grihyasutram of Atharvaveda with Hindi Translation

महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा

DevanagariHindipublished361 पृष्ठ

पृष्ठ 330, कुल 361 में से

संदर्भ में पढ़ें
पृष्ठ 330

३४ अथर्ववेदीय-कौशिकसूत्रस्य- शान्तिरुच्यते । स्त्रीमुखं प्रत्यृचं प्रक्षालयति तस्या मुखं हस्तयोर्मशकशिग्रुकशिरको अस्थानतिलकं ह्रस्वकेशादि पापलक्षणं सामुद्रिके स्त्रीलक्षणं व्याख्यातं । स्त्रियं पाप- लक्षणामभिषिञ्चति दक्षिणात् केशादारभ्य यावदुत्तरपार्श्वं ततः पापलक्षणं विनश्यति सू० २२ ।— अथ पापदर्शने शान्तिरुच्यते । दर्शनदोषो न भवति । पुरुषस्य भाग्यकाले हरिणो यान्ति प्रदक्षिणाः अप्रदक्षिणेषु हरिणेषु अयं जपः पक्षिषु च । श्वानरुदिते काकरुदिते काकमैथुनेषु पुरुषस्य मैथुनेषु श्येनमैथुनदर्शने नग्नस्त्रीदर्शने नग्नपुरुषस्य नपुंसकस्य दर्शने । यत्र क्वचिदपशकुनाः पतिताः तत्र सर्वत्र अयं जपः । श्रुतौ स्मृतौ पठिता अदृष्टव्यास्तेषां सर्वेषां दर्शने अद्भुतानां दर्शनेष्वयं जपः कर्त्तव्यः । लोके यद्विरुद्धं अन्वीक्ष्य...अयं जपः । अपशकुनजपः समाप्तः । सू० २३- अथ पुरुषहवे अकार्यकरणेन विघ्नशमनकर्म उच्यते । कण्डिका ॥ ५३ ॥ सू० १ ।— पुनर्विघ्नशमनमुच्यते । पिशङ्गवर्णसूत्रे बद्ध्वा...अरलूमणिं सम्पा- त्याभिमन्त्र्य बध्नाति...विस्कन्ध विघ्नशमनोमणिः । स्पर्धमानस्य स्पर्धां विनश्यती- त्यर्थः । वेणुदण्डादीन् सम्पात्य ततः सूक्तेन विमृज्य धारयति ।...चित्रदण्डे ध्वज- दण्डे चिन्हदण्डे । लकुटादिदण्डं सर्वं सम्पात्य...धारयति तस्य सर्पशृङ्गि दंष्ट्रादि विघ्नं न भवति । आयुधं सम्पात्याभिमन्त्र्य विमृज्य सूक्तेन धारयति । सर्वशस्त्र- सम्पातिते मायादिकं मायाजालयुद्धे निवारणं संग्रामे इन्द्रजालनिवारणं युद्धे विघ्नं न भवति शत्रुहवं निवारयति । शत्रवो गच्छन्ति । स्पर्धिमानं शत्रुं जयति हवं विनाशयति । सू० २ ।—विघ्नं गृहीतं पुरुषं धूपयति । यस्यारम्भा न सिध्यन्ति । सू० ३ ।—अथ भूमिशुद्धिं गृहं करिष्यमाणस्तस्येदं करोति । अथवा नवे गृहे श्येन- यागः कर्तव्यः विकल्प इति भाष्यकारः । प्रथमतो वा श्येनयागो नवे वा गृहे । सू० ४ ।—अथ गृहप्रवेश उच्यते । वास्तुसंस्कार उच्यते । सू० ५ ।—ततः शान्त्युदकं करोति । मातलीं पूर्वं कृत्वा वास्तोष्पत्यादीनिचतुर्गुणीं महाशान्ति शान्त्युदके आवपते । ततो मातलीं कृत्वा ततः शान्त्युदकं समाप्यते । तेन भूमिं प्रोक्षयेत् । सू० ७ ।— अन्येषु स्थूणा गर्तेषु पार्श्वस्थितेषु प्रक्षिपति । सू० ८ ।— नीयमानां शालामनुमन्त्रयते । सू० ११ ।-दृढां कारयति शालाभूमिं । सू० १३ ।- द्वाभ्यां चरुं जुहोति । केचिदस्मिन्मन्त्रे यजूंषि यज्ञ इति । सू० १५ ।—वृद्धस्त्रियो- गीतमङ्गल्यादि कुर्वन्ति ब्राह्मणाः पुण्याहानि पठन्ति श्राद्धं च केचित्पश्चात्कुर्वन्ति । यत्र गृहं मण्डपं वा कुटीं वा चित्रशालां वा मठस्थानं वा देवगृहं वा अन्यं वा तृणमयं वा काष्ठमयं वा इष्टकामयं वा पाषाणमयं वा गृहादिकं करोति तत्रानेन विधानेन वास्तुयागः कर्तव्यः । सू० १६ ।-अथ क्रव्यादोपहतगृहे क्षेत्रे वान्यत्र गोष्ठे